Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 350 ] महास्वप्ना अपि त्रिंशत् स्युः सर्वे ते द्विसप्ततिः / वीचिता येऽचिरादेव्या महास्वप्ना इमे स्फुटम् // 17 // अर्हताँ चक्रिणां चैतान् स्वप्नान् पश्यन्ति मातरः / सप्तार्धचक्रिणां चाम्बा चतुरः सीरिणां तथा // 18 // प्रत्यर्धचक्रिमा त्रीश्चान्येषामुत्तमजन्मिनाम् / एकैकमम्बिकाः स्वप्नं पश्यन्त्येषां हि मध्यतः // 19 // दृष्टा यदचिरादेव्या महास्वप्नाश्चतुर्दश / तद्भावी त्वसुतो राजन् ! षट्खण्डभरताधिपः // 20 // अथवाऽपि जिनाधीशो विश्वत्रितयवन्दितः / तच्छच्त्वा मुदितो राजा मुमुदे तत्प्रियाऽपि सा // 21 // राज्ञा विसृष्टास्ते स्वप्नपाठकाः प्रययुगृहम् / बभार गर्भ राज्ञी च रत्नगर्भेव सेवधिम् // 22 // अतिस्निग्धातिमधुरं चातिक्षारातितिक्तकम् / वर्जयामास साऽऽहारं कषायकटुकं तथा // 23 // महान्तमशिवं तस्मिन्नासीत् पूर्व पुरे तदा / सञ्जातो मान्यदोषेण लोकस्य प्रलयो महान् // 24 // गन्धद्विपस्य गन्धेनान्यदन्तिमदवत् क्षणात् / उपशान्तं तदशिवं प्रभावाद् गर्भगप्रभोः // 25 // ततश्च चिन्तितं तातजननीभ्यामदो हृदि / प्रभावोऽयमनीदृक्षस्नोर्गर्भगतस्य नौ // 26 // इदं हि घटते यस्माद् गर्भवासदिने मुदा / वन्दितोऽयं समागत्य सहावाभ्यां सुरेश्वरैः // 27 // गतेषु मासेषु नवस्वर्धाष्टदिवसेषु च / ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे निशाकरे // 28 // सूर्यादिषु ग्रहेषचपरमोच्चस्थितेषु . च / सुमे लग्ने मुहूर्ते च प्रवाते चारुमारुते // 29 // .. गाकर 9i8

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388