Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ [367 तथाहि-श्रीसंकेतपुरस्वामी शत्रुमर्दनभूपतिः / विपरीततुरङ्गेण हतः कान्तारमासदत् // 1557 // गाढश्रमवशाजाततृष्णापीडितविग्रहः / मूच्छेयाऽतुच्छया सोऽथ पपात पृथिवीतले // 1558 // प्रत्यासन्नगिरौ तत्र वसन्ति स्म पुलीन्द्र काः / कन्दमूलफलाहारास्तरुवल्कलचीबराः // 1559 / / शिलायामासनं तेषां शयनं च शिलातले / आत्मानं सुखिनं तेऽपि मन्यमाना अदोऽवदन् // 1560 // सुलभं नैर्झरं वारि सदा सन्निहिता प्रिया / शुभो वासः पुलीन्द्राणां श्रूयते नाहितं वचः // 1561 // तेषां मध्यादथो कश्चित् पुलीन्द्रः समुपाययौ / तत्र यत्राभवद् भूपो मर्छयो पतितो भुवि // 1562 // भूषणैर्भषिताङ्गत्वाज्ज्ञात्वा तं पृथिवीपतिम् / / स एवं चिन्तयामास तृष्णयैष विपत्स्यते // 1563 // अस्मिँश्च संस्थिते पृथ्वी निर्माथा सकला भवेत् / तदयं नीरपानेन युक्तो जीवयितुं मम // 1564 // जीवनीयमथानीय पलाशानां पुटेन सः / . पाययामास नृपतिं ततः स्वस्थो बभूव सः // 1565 / / तस्योपकारमतुलं दधानो मानसे नृपः / यावदस्थात् क्षणं वार्ता प्रकुवार्णोऽमुना सह // 1566 // तावत्तत्राययुस्तस्य सैनिकास्तैश्च ढौकितम् / राज्ञो भक्ष्यं मोदकादि शीतलं सलिलं तथा // 1567 // पुलीन्द्रस्यापि तद्भक्ष्यं दापितं पृथिवीभुना / सुखासनगतः स्वेन सहानीतः पुरे च सः // 1568 // कारयित्वा ततः स्नानं परिधाप्य सुवाससी / भूषणैपितश्चारूश्रीखण्डायैर्विलिप्य च // 1569 //

Page Navigation
1 ... 384 385 386 387 388