Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ पूर्वोदितगुणैर्युक्ताः श्राविकाखिजद्गुरोः / त्रिनवतिसहस्राणि त्रीणि लक्षाणि चाभवन् // 1531 // अजिनानां जिन इवातीतानागतवेदिनाम् / चतुर्दशपूर्वभृतां सहस्राण्यष्ट चाभवन् // 1532 // पश्यतां रूपिद्रव्याणि सङ्ख्यातान्नृभवाँस्तथा / सहस्रत्रितयं / शान्ते-रवधिज्ञानिनामभूत् // 1533 // विदुषां समयक्षेत्रगतसंज्ञिमनोरथान् / मनःपर्ययवतां जाता सहस्रचतुष्टयी // 1534 // तथा * चतुःसहस्राणि बभूवुस्त्रिशतानि च / केवलज्ञानयुक्तानां साधूनां सर्वदर्शिनाम् // 1535 // वैकुर्विकलब्धीनां षट्सहस्राणि चाभवन् / चतुःशताधिके द्वे तु सहस्र वादिनां तथा // 1536 // वैयावृत्योद्यतो नित्यं ध्वस्तप्रत्यूहसश्चयः / यक्षोऽभूद् गरुडो नाम्ना तीर्थे शान्तिजिनेशितुः // 1537 // सर्वदा कृतसानिध्या निर्वाणी नाम विश्रुता / श्रीमतः शान्तिनाथस्य जज्ञे शासनदेवता // 1538 // पर्युपास्तिकरो नित्यं चक्रायुधनृपात्मजः / बभूव शान्तिनाथस्य राजा कोणाचलाभिधः // 1539 / / चत्वारिंशद्धनुस्तुहं मृगाङ्क काश्चनधुतिम् / त्रिजगत्यप्रतिरूपं श्रीशान्तेरभवद्वपुः // 1540 // चत्वारो जन्मजा एकादश कर्मक्षयोद्भवाः / / एकानविंशतिश्चान्ये देवसङ्घन निर्मिताः // 1541 // चतुस्विंशदतिशया एते सिद्धान्तभाषिताः / . . यथाऽन्येषां तीर्थकतां शान्तेरपि तथाऽभवनें // 1542 // (युग्मम्) भुवनत्रयनाथस्वरपकानि जिनेशितः / प्रातिहापापि तस्याष्टिावशोकादीनि नदिने ::

Page Navigation
1 ... 382 383 384 385 386 387 388