Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्यविजयासूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 323 तत्स्थानरक्षका इति यावत् / सुराः-देवाः / कदापि-कस्मिँश्चित्काले / साक्षात्भवनात्-साक्षात् कारेण / कदाचन-कस्मिंश्चित् काले च / क्षणेन-उत्सवेन / अस्फुटितेक्षणा:-अस्फुटितमप्र कटमीक्षणं दर्शनं येषान्ते तथा / अप्रत्यक्षा इति यावत् / ममम्-ममत्वम् / गताः-प्राप्ताः / सन्तः इति शेषः / अंहिसेविनाम्-चरणोपासकानाम् भगवद्भक्तानामिति यावत् / ईप्सितम्-अभिलषितम् / अपूपुरन्-पर्यपूरयन् , परिपूरितवन्त इति यावत् // 52 // सुताः कमाहूय चिराय चुकृत-रिवाण्डजाः पक्षवलं तथागमम् / इहाश्रयन्तामितिशिक्षया क्रमाद् ययुविनेया गणिनां गणेशताम् // 53 // अन्वयः-सुताः, चिराय, चुकृतः, अण्डजाः, इव, कम् , आहूय, हह, पक्षवलम् , तथा, आगमम् , आश्रयन्ताम् , इति, शिक्षया, क्रमात् , गणिनाम् , पिनेया, गणेशताम् , ययुः // 53 / / वृत्तिः-सुताः !-भोः शिष्याः ! चिराय-बहुकालम् / चुकतैः- शिशुपभिसूक्ष्मशब्दविशेषैः / अण्डजाः-पक्षिणः / इव-यथा / कम्-आत्मानाम् ब्रह्मेति यावत् पक्षिपक्षे सुखम् / 'को ब्रह्मण्यात्मनि' के शीर्षऽप्सु सुखे'इत्यनेकार्थः। आइय-आकार्य, प्रसाद्य / इह-अत्र लोके / पक्षबलम्-स्ववर्गवलम् , पक्षे पतत्त्रबलम् / तथा-समुच्चयेऽव्ययम् / आगमम्-अङ्गाद्यागमम् , पक्षेऽगमम् वृश्चमिति / आश्रयन्ताम्-अवलम्बन्ताम् / इति एवं प्रकारेण / शिक्षया-उपदेशेन / क्रमात्क्रमशः / गाणनाम्-गणधराणाम् / विनेयाः-शिष्याः 'शिष्यो विनेयोऽन्तेवासी' 1-76 / इत्यभि० चि० / गणेशताम्-गणाध्यक्षताम् / ययुः-अगमन् , प्राप्तवन्त इति यावत् // 53 // विधौ विधेया मतयो विधेयका, विधाय कम्पाणि मुखानि के प्रति / वृथा निरीक्षध्वमितस्ततः किमु, ऋते न बोधात् सविधेः शिवाश्रयः // 54 // अन्वयः--विधौ, विधेयकाः, मतयः, विधेयाः, कम् , प्रति, कम्पाणि, मुखानि, विधाय, निरीक्षध्वम् , इतस्ततः, वृथा, किमु, सविधेः, बोधात , ऋते, शिवाश्रयः, न // 54 // वृत्तिः-विधौ-परमेष्ठिनि 'विधिर्ना नियतौ काले,विधाने परमेष्ठिनि'इति मेदिनी। विधेयका:विधेया अनुष्ठेयाः,करणीया इति यावदेव विधेयकाः स्वार्थे कः प्रत्ययः / मतयः-बुद्धष / विधेया:-करणीयाः।

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388