Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 348
________________ -बाचार्यविवयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां षष्ठः सर्गः [ 329 अन्वयः--सार्वगणशासनसार्वभौमपट्टस्थितस्य, गणिनः, अनुदिनाचनासु, नीराजनाम् , बन्यताम् , निजबान्धवानाम् , पुरः स्थितस्य, भविजनस्य, सर्वत्र, सिद्धिा, भवेत् // 63 // वृत्तिः–सार्वगणशासनसार्वभौमपट्टस्थितस्य-सर्वेभ्यः प्राणिभ्यो हिताः सार्वाः सर्वज्ञा जिनेश्वरा इति यावत् , तेषां गणः समुदयः सार्वगणस्तस्य शासनं साम्राज्यम् , सार्वगणशासनम्, तत्र सार्वभौमश्चक्रवर्ती सावगणशासनसावभौमः शान्तिनाथस्तस्य पट्टस्थितः-पट्टालकारः, सावंगमशासनसार्वभौमपट्टस्थितस्तस्य तथा / गणिनः-गणाधीशस्य / अनुदिनाचनासु-अनुदिनं प्रतिदिनं या अर्चनाः पूजास्ता अनुदिनार्चनास्तासु तथा / नीराजनाम-आरार्तिकाम् आरात्रिकामितियावत् / जनयताम्-सम्पादयताम् , कुर्वताम् इति यावत् / निजबान्धवानाम्-निजा-आत्मीयाश्च बान्धवाः स्वजना, निजबान्धवास्तेषान्तथा / पुरःस्थितस्य-अप्रतो विद्यमानस्य / भविज नस्य-मोझगमनयोग्यलोकस्य / सर्वत्र-सर्वकालावच्छेदेन, सर्वदेशावच्छेदेन चेत्यर्थः / सिद्धिः-नुयपुरुषार्थाधिगमः / भवेत्-जायेत // 3 // श्रीहर्षः कविराजराजिमुकुटालङ्कारहीरः सुतं, श्रीहोरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / . तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्या महा - काव्ये चारुणि नैषधीयचरिते सर्गो यमादिर्गतः // 6 // अन्वयः-कविराजराजिमुकुटालङ्कारहीरः, श्रीहर्षः, श्रीहीरः, च, मामलदेवी, जितेन्द्रियचयम् , यम , सुतम् , सुषुवे, तञ्चिन्तामणिमन्त्रचिन्तनफले, शृङ्गारमङ्गया, चारुणि, नैषधीयचरिते, महाकाव्ये, क्मादिः, सर्गः, गतः // 6 // वृत्तिः-कविराजराजिमुकुटालङ्कारहीरः-क:-अग्निब्रह्मा वा, वीनां पक्षिणां, राजा-प्रभुः, विराजो गरुडः, यक्षराजः, विशिष्टराजो वा, एषु-राजते, दीप्यते, शोभते, वा तच्छोलम् , कविराजराजि सुवर्णमित्यर्थः अग्निर्हिरण्यरेतस्त्वात् , ब्रह्मणो हिरण्यगर्भत्वात्, विराजस्य गरुडस्य सुवर्णकायत्वात् / यक्षराजस्य-कुबेरस्य स्वर्णाधिकारत्वात् / तत्प्रधानो मुकुटालङ्कारस्तत्र हीरः-इव यथा कनकमुकुटालङ्कारे हीरस्तथाऽयमिति भावः / श्रीहर्ष:-पदैकदेशे पदसमुदायोपचारात् “दत्तो देवदत्तः" इति न्यायात् प्राक्तनहीरहर्षनाम्न एकदेशस्य तदर्थबोधकत्वात्-श्रीहर्षेतिपूर्वनामा / श्रीही:श्रिया लक्ष्म्या विशिष्टो हीरो हीरविजयाख्यसूरिवर्यस्तथा / च-पुनः / मामल्लदेवी-मा-लक्ष्मोः पमा वा तद्रूपा मजदेवी समर्थसाधुदेवी-सौभाग्यदेवी / यम्-यादृशम् / जितेन्द्रियचयम्-जिवानि

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388