Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 340
________________ पाचार्यविजवामृतसूरीधरकृतायां विदिनोदिन्यां पञ्चमः सर्गः। [ 321 स्तस्मिंस्तथा / असिते-न सितः शुक्लोऽसितः कृष्णपक्षस्तस्मिंस्तथा / त्रयोदशाहे-त्रयोदशश्च तदहो दिनम् , प्रयोदशाहस्तस्मिंस्तथा / अहनशब्दान्तद्वन्द्वतत्पुरुषयोः पुंल्लिङ्गत्वविधानात् ज्येष्ठकृष्णत्रयोदश्यामिति यावत् / प्रपन्नानशनः-प्रपन्नं प्राप्तमनशनमभक्षणं येन स तथा। समिति शेषः / शिवम्-मोक्षम् / ययौ-प्राप्तवान् / ( तदनन्तरम् ) नवशती-नवानां शतानां समाहारो नवशती / विनेया:-शिष्याः / अनुप्रभु-प्रभोर्भगवतः शान्तिनाथस्य अनु पश्चात् , अनुप्रमु, "विभक्ति" 3 / 1 / 36 / इत्यनेनाव्ययीभावसमासः / अगु:-गतवन्तः / मोक्षमितिशेषः / यतः-यस्माद्धेतोः। ते-बिनेयाः / स्फुटम्-प्रकटं यथास्यात्तथा / अशिशवः-न शिशवो बाला अशिशवस्तरुणा वृद्धा वा, अत एव / परासवा-परे सिद्धा ज्ञानरूपा बा असवः प्राणा येषान्ते तथा केवलिन इति भासन्निति शेषः // 48 // तवापि हा हा विरहात् क्षुधाकुलाः, कुलाश्रया अन्यतपस्विनोऽधुना / त्वयीश ! भुक्ते वनु भुजतामिति,गणीन्द्रमाशास्त हरिः प्रशस्तधीः // 49 // अन्वयः-हा हा, तव, कुल्लाश्रयाः, अन्यतपस्विना, भपि, अधुना, विरहात् , क्षुधाकुला:, ईश ! तु, त्वयि, भुक्त, अनु, भुम्जताम् , इति, प्रशस्तथीः, हरिः, गणीन्द्रम् , आशास्त / / 49 // .. पति:-हा हा-इति खेदातिशयसूचक्रमव्ययद्वयम् / तव-भवतः गणीन्द्रस्येति यावत् / कलाश्रया:-कुलं सजातीयगण आयोऽवलम्बो येषान्ते तथा। अन्यतपस्विनः--प्रशस्तं तपस्तपस्याऽस्त्येषामिति तपस्विनः, अन्ये भवदितरे च ते तपस्विनोऽन्यतपस्विनः / अपि-सम्भावनायाम् / अधुना-साम्प्रतम् / विरहात--जिनवरवियोगतः / क्षधाकुला:-बुमुझाक्षामकुक्षयः / सन्तीति शेषः / ईव !-गणाधीश ! तु-पुनः / त्वयि-भवति / एक्ते-कृतभोजने, सतीति शेषः / अनु भुञ्जताम्पश्चाद् भश्यन्तु / इति-एवम् / प्रशस्तधो:-प्रशस्ता-प्रशंसनीया धोबुद्धिर्यस्य स तथा / विलगबुद्धिशालीत्यर्थः / हरि:-इन्द्रः / गणीन्द्रम्-गणाधीशम् , श्रमणसमुदयाध्यसमिति यावत् / आशास्तसमाधासयत् // 4 // विधाय कल्याणककर्म सोत्सवं, कुलायालेषु विलुट्य तेषु ते / खगा इव स्तूपतटेषु च क्रमाद्, दिवं ययुस्त्यक्तशुवः सुरेश्वराः // 50 // अन्वय-ते, रेश्वराः, सोत्सवम् , कल्याणककर्म, विधाय, कुलायकूलेषु, खगा, इव, तेषु,

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388