Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ आचार्यविषयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां पञ्चमः सर्गः / [ 309 अन्वयः--मदेकपुत्रा, जरातुरा, जननी, पिता (च) पुरः, सनत्यूर्वकुमारताविषम् , गतो, (पुनः) स्वस्य, निनं सया. आगतो, तो, सः, हि, मोहात् , विमोच्य, अबुधत् // 25 // वृत्तिः-मदेकपत्रा-अहमेकोऽद्वितीयः पुत्रस्तनयो यस्याः सा तथा / जरातुरा-वृद्धा / जननी-माता / पिता-जनकः / (च--समुच्चये) पुरः--अचिराविश्वसेनौ पूर्वम् / सनत्पूर्वकुमारताविषम्-"सनत्” इति पूर्व पूर्वपदं यस्य स सनत्पूर्वः स चासौ कुमारः सनत्पूर्वकुमारः स चासो ताविषः स्वर्गः सनत्पूर्वकुमारताविषस्तन्तथा / "स्वर्गस्त्रिविष्टपं घोदिवौ मुस्तविषताविषौ नाकः" 2 / 1 // इत्यभिधानचिन्तामणिः / गतौ-प्राप्नौ / (पुनः) स्वस्थ-आत्मीयस्य ममेति यावत् / निनंसया-नन्तुमिच्छया / आगतो-समायातौ / तौ-मातापितरौ / सः-श्रीशान्तिनाथोऽहन् / हिनिश्चयेन / मोहान्-अज्ञानतः / विमोच्य-मोचयित्वा / अबुधव-प्राबोधयदिति // 25 // प्रवर्तिनी बाल्यत एव सुव्रता, नवप्रसूतिर्वरटा तपस्विनी / स्थिरा सुदृग्मानसनीरजालये, शुचिः सपक्षा चरणानुरागिणी // 26 // अन्वयः --बाल्यतः, एव, प्रवर्तिनी, सुव्रता, नवप्रसूतिः, वरटा, तपस्विनी, शुचिः, सपक्षा, चरणानुरागिणी, सुहक, स्थिरा, (आसीत् ) // 26 // . वत्तिः-बाल्यतः शैशवतः, शैशवमारभ्येति यावत् / एव-अवधारणार्थकमव्ययम् / अवधारणश्चान्ययोगव्यवच्छेदरूपं पूर्वप्रदर्शितपथेनावसेयम् / प्रवर्तिनी-प्रवर्तयति प्रेरयति धर्मकायें जनानिति प्रवर्तिनी / सततधर्मकार्यप्रवर्तनशीलेति यावत् / सुत्रता-सुष्ठु समीचीनं व्रतं तपःसंयमादिनियमो यस्याः सा तथा / नवप्रसूति:-नवनं-नवः, स्तुतिरित्यर्थः जिनस्तव इति यावद, तस्य प्रसूतिरुत्यत्तिर्यस्याः सा तथा / यद्वा-अनवप्रसूतिरितिच्छेदः, न विद्यते नवा नूतना प्रसूतिः प्रसवो यस्याः सा तथा ब्रह्मचारित्वादिति / वरटा-वरमटतीति वरटा, पृषोदरादित्वात्साधु / वरदेव हंसयोषिदिव वरटा, सितच्छदत्वात् अत्र पक्षे छदशब्दो वस्त्रवाचकः / “वरटा हंसयोषिति गन्धोल्या" मित्यनेकार्थः / तपस्विनी-प्रशस्तं तपोऽस्त्यस्या इति तथा, प्रशस्ततपःसंयमवतीत्यर्थः / शुचिः-पवित्रात्मा / सपक्षा-पक्षेण बलेन सहायेन वा सहिता सपना / चरणानुरागिणी-चरणयोभगवत्पादयोश्चरणे आचरणे धर्मानुष्ठाने इति यावद्वानुरागः स्नेहश्चरणानुरागः धर्मानुरागः सोऽयास्तीति चरणानुरागिणी "अतोऽनेकस्वरात्" 7 / 2 / 6 // इत्यनेन मत्वर्थे 'इन' प्रत्ययः / सुदृक्-सुष्ठु शोभना दृक् दर्शनं यस्याः स सुरक्, सदर्शनेति यावत् / स्थिरा-निश्चला / धर्मे इति शेषः / आसीदितिशेषः // 26 //

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388