Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 337
________________ 318 ] श्रीजननेषधीयमहाकाव्ये श्रीशान्तिनायचरित्रे प्रभोविहारे मगधेऽपि मागधैः, प्रवर्ण्यमाने विविधैर्महोत्सवैः / मुखानि लोलाक्षि ! दिशामसंशय, प्रियोऽवदत् पश्य विभूषणैरितः // 43 // अन्वयः-लोलाक्षि !, मगधे, अपि, विविधैः, महोत्सवैः, मागधैः, प्रवर्ण्यमाने, प्रभोः, विहारे, दिशाम , विभूषणः, ( उपलक्षितानि ) मुखानि, इतः, पश्य, (इति ) प्रियः, असंशयम् , अवदत् // 43 // वृत्तिः-लोलाक्षि !-लोले-चञ्चले अक्षिणी नयने यस्याः सा लोलाक्षी, चपलनयना तदामन्त्रणे तथा / मगधे-गङ्गादक्षिणवर्तितदाख्यदेशे / अपि-सम्भावनायाम् / विविधैः-अनेकैः, बहुभिरिति यावत् / महोत्सवैः-महान्तोऽतिशयिताश्च ते उत्सवा उद्वर्षा महोत्सवाः, "सन्महत्परमोत्तमोत्कृष्टं पूजायाम्" 3 / 1 / 107 / / इत्यनेन कर्मधारयः पूर्वनिपातनियमार्थः समासः, तैस्तथा / मागधैः-बन्दिभिः / प्रवर्ण्यमाने-प्रकर्षण स्तूयमाने / प्रभोः-भगवतः शान्तिनाथस्य / विहारेप्रामानामान्तरमुपदेशार्थं विचरणे / दिशाम्-आशानाम् / विभूषणैः-अलङ्कारैः उपलझितानीतिशेषः / मुखानि-वदनानि तदप्रभागाँश्च / इतः-अत्र / पश्य-अवलोकय / वाक्यार्थः कर्म / ( इतिअनेन प्रकारेण ) प्रियः-बल्लभः / तस्याः स्वामीति यावत् / असंशयम्-निश्चितम् यथास्यात्तथा / अवदत्-अकथयत् // 43 // खसिन्धुचापप्रमयोन्नतामित-स्तनं प्रिये ! पश्य महोज्वलां दिशाम् / मुखान्यमुष्याः किरणैश्च तामसाद,दशापि शून्यानि विलोकयिष्यसि // 44 // अन्वयः-प्रिये !, इतः, खसिन्धुचापप्रमया, उन्नताम् , महोज्ज्वलाम् , तनूम् , पश्य, च, अमुष्याः, किरणः, तामसात् , शून्यानि, दिशाम् , दश, अपि, मुखानि, विलोकयिष्यसि // 44 // ___ वृत्तिः-प्रिये !-दयिते ! इत:-अस्मात् स्थानात् / खसिन्धुचापप्रमया-अङ्कानां वामतो गतिः, इत्यभियुक्तोक्त्या-खसिन्धुप्रदेन चत्वारिंशतो ग्रहणम् / खसिन्धुसंख्याकाश्चापा धनंषि खसिन्धुचापस्तेषां प्रमा मानम् खसिन्धुचापप्रमा, तया तथा / उन्नताम्-प्राप्ताभ्युदयाम् / उच्चामिति यावत् / महोज्ज्वलाम्-महती विशाला चासावुज्ज्वला विकाशिनी महोज्ज्वला, तान्तथा / विशेषणयोरपि यथा कथञ्चिद् गुणप्रधानभावमनुसन्धाय "शीतोष्णं जलम्" इति वत् समासः, प्रभाभासुरामिति यावत् / तनम्-शरीरम् / पश्य-अवलोकय / च-पुनः / अमुष्याः -विप्रकृष्टतया

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388