Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्यविजयासूरीश्वरकृतायां विद्वदिनोदिन्यां पञ्चमः सर्गः [ 283 अन्वयः-कपटेन, वामनीम् , मूर्तिम् , विधाय, शनैः, परन् , याम् , त्रिपदीम् , अदीधरत् , पुरुषोत्तमः, प्रसृत्वराम् , पराम् , ताम् , गणेशपेशले, अनेकपे, अवत्त // 49 // वृत्तिः-कपटेन-छलेन / वामनीम्-वामनस्य, सर्वस्येयं वामनी ताम् तथा वामनावतारलतामितियावत् / मूर्तिम्-शरीरम् / विधाय-कृत्वा / वामनाकारमाधायेत्यर्थः / शनै:-मन्दं यथा स्यात्तथा / चरन्-गच्छन् / याम्-यादृशीम् / त्रिपदीम्-त्रयाणां पदानां चरणानां समाहारत्रिपदो तान्तथा / अदीधरत-धृतवान् / पुरुषोत्तमः-विष्णुरितिशेषः / 'विष्णुर्जिष्णु जनार्दनौ हरिहृषीकेशाच्युताः केशवो, दाशाहः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्दानुजौ' 2-128 इत्यभि० चिन्ता० / पुरुषोत्तम:पुरुषेषु उत्तमः स तथा जिनः, पुरिसुत्तमाणं इति सूत्रेऽपि श्रीशान्तिनाथ इति यावत् / प्रसृत्वराम्प्रसरणशीलाम् / पराम-उत्कृष्टाम् / ताम्-त्रिपदीम् 'उपन्ने ई वा, विगमे ई वा, धुवे ई वा' इति पत्रयात्मिकाम् / गणेशपेशले-गणस्यैकवाचनिकमुनिसमुदायस्य ईशः स्वामी गणेशो पेशलः कोमलो मनोज्ञो वा गणेशः गणधरः स चासौ पेशलस्तस्मिंस्तथा चक्रायुधाभिधाने इति यावत् / अनेकपे-अनेकान् भव्यान् पाति रमतीति अनेकपस्तस्मिँस्नथा / अधत्त-धृतवान् / अयं भावः-यथा पुरुषोत्तमो विष्णुर्वामनी त्रिपदीं गणेशपेशले विनायकं प्रति कोमले भक्तिप्रद्धेऽनेकपो हस्ती स इव बली तस्मिँस्तथा बलिनामकेऽसुरे अदीधरत्तथा पुरुषोत्तमो भगवान् श्रीशान्तिनाथो गणधरे त्रिपदोमदीधरदिति अर्थस्तूक्त एव / व्यतिरकानुप्राणितः श्लेषालङ्कारः // 49 // त्रिविक्रमोऽरिष्टबलं पिनष्टि यः, स्वयं बलिध्वंसिविडम्बिनीमयम् / तनूं न धर्ता किमनूनतेजसा, सचक्रपाणिश्च कृपाणिनां प्रभुः // 50 // अन्वयः-य:, स्वयम् , त्रिविक्रमः, अरिष्टबलम् , पिनष्टि, (स.) कृपाणिनाम् , प्रभुः, च, सचक्रपाणिः, अयम् , अनूनतेजसा, बलिध्वंसिविडम्बिनीम् , तनूम् , किम् , न धर्ता // 50 // वृत्तिः- यः-यादृशः / स्वयम्-आत्मना / त्रिविक्रमः-ज्ञानदर्शनचरित्रेषु विक्रमो बलं यस्य स तथा, ज्ञानदर्शनचारित्रवत्वात्रिविक्रमः सन् / अरिष्टबलम-अरिष्टस्य-अशुभस्य बलं-सैन्यम्,अरिष्टबलम् , अशुभकदम्बकम् तत्तथा / पिनष्टि-चूर्णयति, अवध्वंसयतीति यावत् / (स:-तादृशः प्रसिद्धो वा) कृपाणिनाम्-कृपात्मकोऽणः शब्दोऽस्त्येषां कृपाणिनः यद्वा कृपामण्यते जीवयतीति पाणम् अहिंसादिमहाव्रतं तदस्त्येषां ते कृपाणिनस्तेषां तथा, मुनोनामिति यावत् / प्रभुः-स्वामी, नायक इति यावत् / च-पुनः / सचक्रपाणिः-चक्रेण चिह्नविशेषेण सहितःसचक्रः,सचक्रः पाणिः करो यस्य च मचक्रपाणिः। अयम्-असौ। भगवान् शान्तिनाथ इति यावत् / अनूनतेजसा-अनल्पप्रतापेन / बलिसिबिडम्बिनी-बलिध्वं.

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388