Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदियां पञ्चमः सर्गः [ 299 इति, सखायः, भृशम् , विवदन्ते, अतः, परिग्रहे, आग्रहयालुता, न, हिता // 6 // वृत्तिः हेमजन्मनः-हेम्नः सुवर्णस्य, जन्म-उत्पत्तिरागमो लाभ इति यावत्, हेमजन्म, तस्मात्तथा / हेमसमुत्पतित इत्यर्थः / धनान्वितान्-धनैर्विभवैरैश्वर्यैरिति यावत् , अन्विता-विशिष्टा धनान्वितास्ताँस्तथा / विभूतिविभूषितानिति यावत् / मम-मल्लक्षणस्य जनस्य / पक्षान-पाणिप्रहान्, सहायान् वा / समीक्ष्य-विचार्य, आकलय्य, विलोक्य वा / दुर्जनताम्-दुष्टो-जनो, लोको दुर्जनस्तस्य भावो दुर्जनता, तां तथा / किम्-कथम् / करोषि-आदधासि, आचरसीति यावत् / इति-इत्थम् / सखायः-मित्राणि / परस्परमिति शेषः / भृशम्-अत्यन्तम् / विवदन्तेविवादं कुर्वन्ति / अत:-अस्माद्धेतोः / परिग्रहे-परिजने, पत्न्याम् , द्रव्याधुपाधौ वा / आग्रहयालुता-आगृह्यते, आप्रहाणि, आग्रहं करोति इति यावत् , आग्रहयालुस्तस्य भाव आग्रहयालुता, तान्तथा / न-नहि / हिता-कल्याणप्रदा, परिग्रहविषये आवेशो ( यत्नः ) न विधेय इति भावः // 6 // मितायुषा तृड् जनिता जनाऽञ्जन-ने वाधिका स्यानभसो नवाधिका / तवार्णवस्येव तुषारशीकरः, प्रवृद्धवेलेव तुषाररोचिषा // 7 // अन्वयः-(हे) जन !, तव, मितायुषा, अञ्जनः, जनिता, नवा, नभसः, अधिका, तृट , तुषाररोचिषा, तुषारशोकरः, प्रवृद्धवेला, इव, अर्णवस्य, इव, नवा, अधिका. स्यात् // 7 // वृत्तिः हे जन !-हे लोकसमुदय ! तव-त्वल्लक्षणस्य जनस्य / मितायुषा-मितं परिमितमायुर्जीवनकालो, मितायुस्तेन तथा। अल्पजीवनकालेनेत्यर्थः, कर्तृभूतेनेति शेषः / अञ्जनैःपापैः / करणभूतैरिति शेषः / जनिता-उत्पादिता / नवा-नवीना / नभसः-आकाशात् / अपीति शेषः / अधिका-व्यापिका / तृट-तृष्णा / तुषाररोचिषा-तुषारं शीतलं, रोचिः किरणं यस्य स तुषाररोचिश्चन्द्रस्तेन तथा / तुषारशीकर:-तुषाराः शीतलाश्च ते शीकरा-जलकणाः, तुषारशोकरास्तैस्तथा / करणभूतैरिति बोध्यम् / प्रवृद्धवेला-प्रवृद्धा वृद्धिमतिशयितामुपगता चासो वेला जलवृद्धिः प्रवृद्धवेला / इव-यथा / अर्णवस्य-समुद्रस्य / इव-यथा / नवा-नैव / अधिका-अतिरिक्ता / स्यात्-भवेत् / चन्द्रवृद्धिजनिता प्रवृद्धवेला समुद्रमर्यादा यथाऽणवस्याधिका न भवति तथा अल्पजीवनकालकर्तृकपापकर्मकरणिका तृष्णा तवापि नाधिकाऽवभासेतेति / तथा च तामपनेतुमवश्यं यतनीयमिति // 7 //

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388