Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 401
________________ सम्मति० काण्ड २, मा०४२ २५३ पुरुषद्रव्यस्य राजत्वपर्यायः प्रागसम्मेवोत्पन्नस्तद्वजीवद्रव्यस्य केवलित्वपर्यायोऽपि पूर्वमसनेवोत्पन्न इति द्रव्यपर्याययोः कथश्चिदभेदात्तदभिमजीवद्रव्यमपि तद्रपेण कथञ्चिदुत्पन्नम् , केवलज्ञानश छाअस्थिकज्ञाने नष्टे सत्येवोत्पद्यते इति प्राक्तनछामस्थिकज्ञानाधात्मकछमस्थत्वपर्यायविनाशे तद्रूपेण तदभिन्न जीवद्रव्यं कथश्चिद्विगतम् , न च तथापि कदापि पूर्वोत्तरपर्यायानुगतजीवद्रव्यसामान्यमुपयोगलक्षणासाधारणजीवस्वरूपं परिजहाति, अन्यथा जीवोऽजीवत्वं प्राप्नुयादिति तद्रूपेण ध्रुवमिति त्रिलक्षणात्मकं जीवद्रव्यम् , हेमद्रव्यं प्राक्तनकटकादिरूपेण विनष्टं सदुत्तराङ्गदादिपर्यायरूपेणोत्पन्नमपि नैव पूर्वोत्तरपर्यायपरित्यागोपादानप्रवृत्तमूर्खतासामान्यात्मकस्वस्वरूपं कदापि परिजहातीति तद्रूपेण ध्रुवमिति विलक्षणा. स्मकहेमद्रव्यवज्ज्ञेयम् । इत्थमेवोपदेशरहस्येऽपि “विकलप्रकाशपरिणामेन नष्टा ध्रुवा चेतनैव केवलज्ञानतया परिणमते इत्थमेव त्रैलक्षण्योपपत्तेः" इत्युक्तम् । तथा च विकलप्रकाशपरिणतचेतनाया एव घातिकर्मक्षये सति सकलप्रकाशस्वभावकेवलज्ञानरूपेण परिणमनभावात्केवलज्ञानं कथंचित् सादि, परिणामपरिणामिनोश्च कथञ्चिदभेदात्रिकालानुयायिचेतनापरिणामरूपमेव केवलज्ञानमिति परिणामिभूतायाश्चेतनाया अनादित्वात्तदभित्रकेवलज्ञानमपि तद्रूपेण कथश्चिदनादि, अत एव परिणामिकारणस्वरूपतया कथञ्चित्सदेवोत्तरपर्यायरूपकार्यस्वरूपतामधिगच्छतीति सिद्धान्तप्रवादोऽपि प्रमाणकोटिमाटीकते। घातिकर्मक्षये सत्येव केवलज्ञानमुत्पद्यत इत्युत्पत्तिमत्वाच्च तत्सादि । तथा समयभेदेन भिन्न भिन्नरूपाः केवलज्ञानपर्यायाः शास्त्रे प्रोक्ताः, " पढमसमयसजोगिभवस्थकेवलनाणं अपढमसमयसजोगिमवस्थकेवलनाणं " इति नन्दिसूत्रवचनात् , अत एव शुद्धगुणव्यञ्जनपर्यायात्मकस्य केवलज्ञानस्यापि ऋजुसूत्रादेशेन क्षणभेदभित्रकेवलज्ञानपर्याया अर्थपर्याया इति मन्तव्यम् । तथा च केवलज्ञानस्य क्षणभेदाद् भेदे सति प्रतिक्षण यपरिणतिभेदेन तदवगाहित्वस्वभावभेदेन भेदे च सति तत्सपर्यवसानम् । यद्वा भवस्थकेवलज्ञानपर्यायसिद्धकेवलज्ञानपर्याय. योरप्यर्थपर्यायत्वात् ताभ्यां केवलज्ञानस्य विनाशोत्पत्तिभावात्तत्सपर्यवसानम् , क्षणभेदेन प्रतिक्षणक्षेयपरिणति मेदेन च भिन्नमिनकेवलज्ञानार्थपर्यायाणां केवलज्ञानशब्दवाच्यत्वा. तत्रानुगतं स्वभावगुणव्यञ्जनपर्यायाख्यकेवलज्ञानमिति तद्भावात्मककेवलमा प्रतीत्याऽपर्यवसानमिति भावः ॥४१॥ नैकान्ततो द्रव्यं पर्यायेभ्यो भिन्नमेवेत्युपदर्शयितुमाहजीवो अणाइनिहणो 'जीव' ति य णियमओ ण वत्तव्यो । जं पुरिसाउय जीवो देवाउयजीवियविसट्ठो ॥ ४२ ॥ 'जीवो अणाइनिहणो' जीवोऽनादिनिधनः 'जीवत्ति य' जीव इति च, विशेषविकलो जीव एव, देवमनुष्यादिपर्यायाख्यविशेषेभ्य एकान्तभिन्नत्वेन तदनात्मकत्वात्तस्येति "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556