Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 521
________________ सम्मति कान्ड • ३, गा० ५७ ३७३ 44 , नयमते वक्तव्य सामान्यनिरपेक्षो विशेष एव तन्मते यदेवार्थक्रियाकारि तदेव सत् जलाहरणाच्छादनाद्यर्थक्रियाकारी च घटपटादिविशेषः, न पुनर्घटत्व पटत्वादिसामान्यमिस्यर्थक्रियाकारित्वेन विशेष एव सन्, न तु सामान्यमित्येवं विशेषवादित्वातस्य, एए समोवणीया " " एतौ समुपनीतौ ” एतौ सामान्यविशेषौ अन्योन्यनिरपेक्षौ एकैकरूपतया परस्परप्राधान्येन वा एकत्रोपनीतौ प्रदर्शितौ " विभजवायं विसेसेति " विभज्यवादं सामान्यविशेषोभयात्मकस्य वस्तुनः कथमित्थमित्याकाङ्क्षानिवृत्तये विभज्य स्वस्वप्रतिनियतनिमित्तं पृथगुपदर्श्य वादः एतन्निमित्तापेक्षया सामान्यात्मकम् एतमिमित्तापेक्षया च विशेषात्मकं वस्त्वित्येवं प्रतिपादनात्मा, इत्यतोऽनेकान्तवादी विभज्यवादः, तं विशेषयतः, अतिशयाते । अयम्भावः- वस्तुमात्रं परस्परानुषक्तसामान्यविशेषोभयात्मकं तथैवाध्यक्षादिप्रमाणेनानुभूयमानत्वात् । न च हेत्वसिद्धिरिति वाच्यम्, यतो नहि पुरुष- सर्प- हेमद्रव्यादिसामान्यावस्था बाल-कुमारादिवक्रो सरलादिकुण्डलमुद्रिकाद्याकारात्मकनानाविधावस्थाः परित्यज्याऽनुभूयते, पूर्वोक्तततदवस्थानुस्यूaaयैव तस्याः प्रतीतेः, बालकुमारादिवक्रोध्र्ष्यादिकुण्डलमुद्रिकादितत्तद्विशेषावस्था अपि नहि पुरुषसर्पमद्रव्यादिसामान्यावस्थाविनिर्मुक्ता अनुभूयन्ते, अनुगतैका कार पुरुषसर्पहेमद्रव्यादिसामान्यानुविद्धतयैव तासां प्रतीतेः एवं तिर्यग्टत्व पटत्वादिसामान्यमतिरिक्तं परिकल्प्य तत्र सामान्यत्वधर्मकल्पनाऽपेक्षया ' धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायात् सिद्धघटादिव्यक्तावेव सामान्यत्वकल्पना युक्तेति परस्परसापेक्षसामान्यविशेषोमयात्मक यथार्थ वस्तुस्वरूपप्रतिपादकतयाऽनेकान्तवादं सत्यवादस्वरूपं परस्परनिर पेक्षौ सामान्यविशेषौ अतिशयाते प्रत्यक्षादिप्रमाणबाधितत्वेनाऽसत्यरूपतयाऽनेकान्तवा - दतः तावतिशयं लभेते, अप्रमाणभावं भजेते इति यावत् । विशेषे साध्येऽनुगमाभावतः, सामान्ये साध्ये सिद्धसाधनतया साधनवैफल्यतः । कथं सिद्धसाधनमिति चेत्, इत्थं धूम सामान्यस्य वह्निसामान्येन यद्व्याप्तिग्रहणं तेन सर्वत्र धूमसामान्याधिकरण देशे वसामान्यमवधारितमेव, तस्यैव साधने सिद्धसाधनं स्यादेवेति । प्रधानोमयरूपे साध्ये उमय दोषापत्तितः, अनुभयरूपे साध्ये उभयाभावतः साध्यत्वाऽयोगात्, तथाहि -वस्तु सामान्यस्वरूपं विशेषस्वरूपं वा भवेत् यच्च न सामान्यस्वरूपं न वा विशेषस्वरूपं तत्वरविषाणकल्पं न साध्यं भवितुमईतीति । अनेकान्ते तु न साध्यसिद्धिरनुपपन्ना, कथञ्चिद्वह्निमत्तायाः साध्यत्वेन ' पर्वतो द्रव्यवान्' इत्यादावनतिप्रसङ्गात्, वह्निमत्ताया द्रव्यवत्तासामान्य क्रोडीकृतत्वेऽपि कथञ्चिदतिरेकात्, विवादास्पदी भूतसामान्यविशेषोभयात्मक साध्यधर्माधारधर्मिसिद्धेश्व, अन्यथा ' पर्वतसामान्यं वह्निमत्तयाऽनुमिनोमि इमं पर्वतं वह्निमत्तयाऽनुमिनोमि ' इत्यादि विभज्याध्यवसायाकारानुपपत्तेः, इतरत्र संशयाऽनिवृत्तिप्रसङ्गाच, केवल सामान्यात्मकधर्मिणि साध्यसिद्धावस्मिन् 4 + " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556