________________
सम्मति कान्ड • ३, गा० ५७
३७३
44
,
नयमते वक्तव्य सामान्यनिरपेक्षो विशेष एव तन्मते यदेवार्थक्रियाकारि तदेव सत् जलाहरणाच्छादनाद्यर्थक्रियाकारी च घटपटादिविशेषः, न पुनर्घटत्व पटत्वादिसामान्यमिस्यर्थक्रियाकारित्वेन विशेष एव सन्, न तु सामान्यमित्येवं विशेषवादित्वातस्य, एए समोवणीया " " एतौ समुपनीतौ ” एतौ सामान्यविशेषौ अन्योन्यनिरपेक्षौ एकैकरूपतया परस्परप्राधान्येन वा एकत्रोपनीतौ प्रदर्शितौ " विभजवायं विसेसेति " विभज्यवादं सामान्यविशेषोभयात्मकस्य वस्तुनः कथमित्थमित्याकाङ्क्षानिवृत्तये विभज्य स्वस्वप्रतिनियतनिमित्तं पृथगुपदर्श्य वादः एतन्निमित्तापेक्षया सामान्यात्मकम् एतमिमित्तापेक्षया च विशेषात्मकं वस्त्वित्येवं प्रतिपादनात्मा, इत्यतोऽनेकान्तवादी विभज्यवादः, तं विशेषयतः, अतिशयाते । अयम्भावः- वस्तुमात्रं परस्परानुषक्तसामान्यविशेषोभयात्मकं तथैवाध्यक्षादिप्रमाणेनानुभूयमानत्वात् । न च हेत्वसिद्धिरिति वाच्यम्, यतो नहि पुरुष- सर्प- हेमद्रव्यादिसामान्यावस्था बाल-कुमारादिवक्रो सरलादिकुण्डलमुद्रिकाद्याकारात्मकनानाविधावस्थाः परित्यज्याऽनुभूयते, पूर्वोक्तततदवस्थानुस्यूaaयैव तस्याः प्रतीतेः, बालकुमारादिवक्रोध्र्ष्यादिकुण्डलमुद्रिकादितत्तद्विशेषावस्था अपि नहि पुरुषसर्पमद्रव्यादिसामान्यावस्थाविनिर्मुक्ता अनुभूयन्ते, अनुगतैका कार पुरुषसर्पहेमद्रव्यादिसामान्यानुविद्धतयैव तासां प्रतीतेः एवं तिर्यग्टत्व पटत्वादिसामान्यमतिरिक्तं परिकल्प्य तत्र सामान्यत्वधर्मकल्पनाऽपेक्षया ' धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायात् सिद्धघटादिव्यक्तावेव सामान्यत्वकल्पना युक्तेति परस्परसापेक्षसामान्यविशेषोमयात्मक यथार्थ वस्तुस्वरूपप्रतिपादकतयाऽनेकान्तवादं सत्यवादस्वरूपं परस्परनिर पेक्षौ सामान्यविशेषौ अतिशयाते प्रत्यक्षादिप्रमाणबाधितत्वेनाऽसत्यरूपतयाऽनेकान्तवा - दतः तावतिशयं लभेते, अप्रमाणभावं भजेते इति यावत् । विशेषे साध्येऽनुगमाभावतः, सामान्ये साध्ये सिद्धसाधनतया साधनवैफल्यतः । कथं सिद्धसाधनमिति चेत्, इत्थं धूम सामान्यस्य वह्निसामान्येन यद्व्याप्तिग्रहणं तेन सर्वत्र धूमसामान्याधिकरण देशे वसामान्यमवधारितमेव, तस्यैव साधने सिद्धसाधनं स्यादेवेति । प्रधानोमयरूपे साध्ये उमय दोषापत्तितः, अनुभयरूपे साध्ये उभयाभावतः साध्यत्वाऽयोगात्, तथाहि -वस्तु सामान्यस्वरूपं विशेषस्वरूपं वा भवेत् यच्च न सामान्यस्वरूपं न वा विशेषस्वरूपं तत्वरविषाणकल्पं न साध्यं भवितुमईतीति । अनेकान्ते तु न साध्यसिद्धिरनुपपन्ना, कथञ्चिद्वह्निमत्तायाः साध्यत्वेन ' पर्वतो द्रव्यवान्' इत्यादावनतिप्रसङ्गात्, वह्निमत्ताया द्रव्यवत्तासामान्य क्रोडीकृतत्वेऽपि कथञ्चिदतिरेकात्, विवादास्पदी भूतसामान्यविशेषोभयात्मक साध्यधर्माधारधर्मिसिद्धेश्व, अन्यथा ' पर्वतसामान्यं वह्निमत्तयाऽनुमिनोमि इमं पर्वतं वह्निमत्तयाऽनुमिनोमि ' इत्यादि विभज्याध्यवसायाकारानुपपत्तेः, इतरत्र संशयाऽनिवृत्तिप्रसङ्गाच, केवल सामान्यात्मकधर्मिणि साध्यसिद्धावस्मिन्
4
+
" Aho Shrutgyanam"