________________
३७४
सम्मति० काण्ड ३, गा० ५८-५९ पर्वते वहिरस्ति न वेति संशयो न निवर्तत, एवं पर्वतविशेष साध्यसामान्यस्य पर्वतोऽयं द्रव्यवानित्येवं सिद्धौ पर्वतोऽयं धृमजनकतावच्छेदकेन अहित्वात्मकसामान्यविशेषेण पर्वतीयवहिव्यक्तिविशेषवान वेति संशयश्च न निवतेंतेति । तदेवं विवादास्पदी. भूतसामान्यविशेषोभयात्मकसाध्यधर्माधारधर्मिणि अन्योन्यानुविद्धसाधर्म्यवैधर्म्यस्वभाव. द्वयात्मकैकहेतुप्रदर्शनतो नैकान्तपक्षोक्तदोषावकाशः सम्मत्री, अत एव गाथापचार्थेन-एतौ सामान्यविशेषौ समुपनीतौ परस्परसव्यपेक्षतया 'स्यात्पदप्रयोगतो धर्मिणि अवस्थापितो विमज्यवादं परस्परसापेक्षसामान्यविशेषोभयात्मकवस्तुनो विभज्य पृथक्कृत्य सामान्याद्विशेष विशेषात्सामान्यं परस्परनिरपेक्षतया सर्वथा भेदमवलम्ब्य वादो विभज्यवाद एकान्तसामान्यवाद एकान्तविशेषवादश्व, तं विशेषयतः निराकुरुतः, एवमेव तयोरात्म. लाभात् अन्यथाऽनुमानविषयस्योक्तन्यायतोऽसत्त्वादित्यपि दर्शितम् ।। ५७ ॥
अनुमाने विधेयतयोपन्यस्ते यस्मिन् साध्ये अतिकुशाग्रबुद्धिरपि परप्रवादी एकमपि दक्षणं नोचारयितुं शक्नोति तदेव साध्यं साधयितुं योग्यम्, नापरम् , तच्च स्याद्गर्ममेव, न त्वेकान्तात्मकमित्युपदर्शयमाह
हेउविसओवणीयं, जह वयणिज्जं परो नियत्तेइ ।
जइ तं तहा पुरिल्लो, दाइंतो केन जिव्वंतो ॥ ५८ ॥ " हेउविसओवणीयं ' हेतुविषयोपनीतम् , हेतुविषयतया हेतुज्ञानजन्यानुमितिविधेयसयोपनीतमुपन्यस्तं साध्यधर्मिलक्षणं वस्तु पूर्वपक्षवादिना "कार्यत्वलिङ्गतश्शब्दोऽनित्यः" इत्येवं "जह वयणिजं" यथा वचनीयं यथा प्रतिपाद्यं ' परो नियत्तेह' परो क्षणवादी निवर्तयति दूषयति, बौधमतेन शब्देऽनित्यत्वस्येष्टत्वेन कार्यत्वस्य कालिकसम्बन्धेन घटत्वपटत्वादिमस्खलक्षणस्याननुगतत्वेन प्रागभावप्रतियोगित्वलक्षणस्यापि च प्रतियोगिमेदेन मिनरूपतयाऽननुगतत्वेन सिद्धसाध्यताऽननुगमदोषाधुपन्यासेन एकान्तवचनीयस्य तदितरधर्माननुषक्तस्यानेकदोषदुष्टतया निवर्तयितुं शक्यत्वात् , ' जइ तं तहा' यदि तसथा द्वितीयधर्माकान्तं, स्यात्पदगर्भमिति यावत् 'पुरिल्लो दाइंतो' पुरिल्लः पूर्वपक्षवादी अदर्शयिष्यत् ततोऽसौ केन जिवंतो' केनाजेष्यत ?, स्यात्पदगम साध्यविशिष्टधर्मिणं दर्शयन् वादी न केनापि जेतुं शक्य इत्यर्थः। तदेवं विजिगीषुणा शास्त्रतत्त्वज्ञेन स्याद्गर्भसाध्यप्रयोग एव कर्तुमुचितः। तदकरणे त्वेकान्तसाध्यस्यासन्चात् तत्पदर्शकोऽसत्यवादितया निग्रहस्थानमवाप्नुयात् ॥ ५८ ॥ एतदेवाह
एयन्तासब्भूयं, सन्भूयमणिच्छियं च वयमाणो । लोइयपरिच्छियाणं, वयणिजपहे पडइ वादी ॥ ५९॥ ..
"Aho Shrutgyanam"