________________
सम्मति• काण्ड ३, गा..
' एयन्तासम्भ्यं । एकान्ताऽसद्भूतम् , “ सम्भ्यमणिच्छियं च वयमाणो " सद्भूतमनिश्चित वदन् ' लोइयपरिच्छियाणं ' ( परिच्छयाणं इत्यपि पाठः ) लौकिकपरीक्षकाणां लौकिकाच ते परीक्षकाच लौकिकपरीक्षकाः, तेषां लौकिकानां परीक्षकाणाश्चेत्यर्थः 'वयणिजपहे पडइ वादी' वचनीयपथं वचनीयमार्ग निन्धमार्गमिति यावत् पतति वादी, निन्धमार्गमवाप्नोति वादीत्यर्थः, स्याद्गर्भहेतोः स्याद्गर्भसाध्यं परस्परसामान्यविशेषात्मके पक्षे साधयन् वादी यथार्थतत्ववादितया निग्रहस्थानं तत्ववित्पर्षदि नासाद. यतीति निश्चितान्यथाऽनुपपन्न एव हेतुः पक्षे तेन प्रयोक्तव्यः, तन्मात्रादेव साध्यप्रतिपत्ते, त्रिरूपादिकं विद्यमानमप्यऽकिश्चित्करत्वेन न प्रदर्शनीयम् , इतरथा हेतुगतेतरधर्मा अपि प्रदर्शनीयास्स्युः। प्रतिज्ञाहेतूदाहरणोपनयनिगमनात्मकं पञ्चावयववाक्यमपि नैव नियमेन परार्थानुमितिजननोपयुक्तम् , मन्दमतिश्रोत्रपेक्षया तदुपयुक्तत्वेऽपि व्युत्पन्नमतिश्रोत्रपेक्षया तदनुपयुक्तत्वाचस्य, प्रतिज्ञाहेतुमात्रादप्यनुमित्युत्पत्तेः, उक्तश्च प्रमाणनयतवालोकालङ्कारे " पक्षहेतुवचनात्मकं परार्थानुमानमुपचारात् । ३-२३ ॥ पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरझं न दृष्टान्तादिवचनम् ।। ३-२८ ।। इति " ॥ ५९ ।।
अनेकान्तात्मकवस्तुन एवाऽध्यक्षादिप्रमाणसिद्धत्वेनाऽबाधिततया तत्प्ररूपणैव सन्मार्ग इत्युपसंहरमाह
दव्वं वित्तं कालं, भावं पज्जाय-देस-संजोगे।
भेदं च पडुच समा, भावाणं पन्नवणपजा ।। ६०॥ "दवं खितं कालं भावं पजाय-देस संजोगे भेदं च पञ्च" द्रव्यं क्षेत्र कालं भावं पर्याय-देशसंयोगान् भेदं च प्रतीत्य' उक्तानष्टौ भावानाश्रित्य वस्तुनो भेदे सति "समा मावाणं पण्णवणपजा" "समा भावानां प्रज्ञापनापर्या "-समा समानरूपतया भावानां निखिलवस्तूनां प्रज्ञापना प्रकर्षेण प्रत्यक्षादिप्रमाणाऽबाधिततया ज्ञापना प्ररूपणा स्याद्वादात्मिका या सा पर्या पन्था मार्ग इति यावत् , सैव परमार्थ त्या वस्तुतश्वसाधिकेत्यर्थः । तत्र द्रव्यं पृथिव्यादि,क्षेत्रं स्वारम्भकावयवस्वरूपं तदाश्रयं वाऽऽकाशम् ,कालं युगपदयुगपचिरक्षिप्रप्रत्ययलिङ्गानुमेयम् , नवपुराणभावलक्षणवर्तनात्मकं वा, भावं मूलारादिलक्षणम् , पर्याय रूपादिस्वभावम् , देशं मूलारपत्रकाण्डादिक्रममाविविभागम् , संयोगं भूम्यादिप्रत्येक समुदायम् , भेदं द्रव्यपर्यायलक्षणं प्रतिक्षणविवर्तात्मकं वा, जीवाजीवादिभावानां प्रतीत्य समानतया तदतदात्मकत्वेन प्रज्ञापना निरूपणा या सा सत्पथ इति । यतो न द्रव्यक्षेत्रकालभावपर्यायदेशसंयोगमेदरहितं वस्तु केनचित् प्रत्यक्षाद्यन्यतमप्रमाणेनावबोधुं शक्यम् , न च प्रमाणागोवरस्य सत्यवहारयोग्यतेत्येकानेकात्मकत्वेनानुभूयमानं वस्तुमात्रमनेकान्तास्मकमभ्युपेयम्, एवमनुभवसिद्धमप्येकानेकात्मकं वस्तु प्रतिक्षिपन विरोधमीतो वैशेषिको
"Aho Shrutgyanam"