________________
सम्मति० काण्ड ३, गा० . नैयायिको वा चित्रपटे चित्रैकरूपमपि कथमभ्युपेयात् , अत्र नव्यनैयायिका अवच्छेदकता. सम्बन्धेन शुक्लादिकं प्रति शुक्लादेः कारणत्वात् चित्रपटे तत्तदवयवगतशुक्लनीलादितश्शुक्ल नीलादिनी नानारूपाण्येवाच्याप्यवृत्तिन्युत्पद्यन्ते, चित्रत्वव्यवहारस्तु परस्परसमानाधिकरणनानारूपनिबन्धन इत्यभ्युपयन्ति । प्राचीननैयायिकास्तु सविषयावृत्तिव्याप्यवृत्तिवृत्तिजातीपानामव्याप्यत्तित्वविरोधाञ्चित्रपटे न नानारूपं, किन्तु विजातीयं चित्ररूपमेवातिरिक्तमभ्युपगच्छन्ति, अत एवैकं चित्ररूपमिति प्रतीत्युपपत्तिः, अतिरिक्तचित्ररूपत्वावच्छिक विषयताकस्पनायां लाघवात् , अन्यथा चित्रमितिप्रतीतेनीलत्वपीतत्वायत्रच्छिमनानाविषयता कल्पनीया स्यादिति गौरवं स्यात्, तदुभयमप्यनुभव विरुद्धं, शुक्लनीलादिनानारूपाणामेकस्य चित्ररूपस्य च चित्रपटेऽनुभूयमानत्वात् , तत्र तत्तदवयवावच्छेदेन शुक्तनीलादिरूपाणां सम्पूर्णावयवावच्छेदेन चित्ररूपस्यैकस्य चैकत्र चित्रपटे वृत्तौ विरोधाभावे. नानुभवानुरोधेन नानारूपसमानाधिकरणचित्ररूपस्य स्वीकार एव ज्यायान् । न चावयव. गत शुक्लनीलादीनामेव परम्परासम्बन्धेनावयविनि प्रतीत्युपपत्तेरवयविनि साक्षात्सम्बन्धेन चित्ररूपमेवैकं रूपं, तथाकल्पनायामवयविगतनानारूपाऽकल्पनेन लापवमिति वाच्यम् , शुक्लादीनां साक्षात्सम्बन्धेनैव तत्रावयविनि प्रतीतेरित्थं बाधकल्पने त्रुटिमात्रगतत्वमेव नीलाधशेषरूपाणां स्यात् , यतस्त्रुटिगतानामेव शुक्लादीनां परम्परासम्बन्धेनावयविनि प्रतीत्युपपत्या तत्र नानारूपाऽकल्पनप्रयुक्तलाघवं सुस्पष्टमेव । यदि साक्षात्सम्बन्धेना. वयविनि शुक्लादिप्रतीतेरनुभूयमानायास्तद्वाधान्नैवमम्युपगन्तुं शक्यं, तर्हि चित्रपटेऽपि साक्षात्सम्बन्धेनैव चित्रप्रतीतेरिव नानाशुक्लादिरूपप्रतीतेरप्यनुभूयमानत्वात् तद्वाधान परम्परासम्बन्धेनावयवगतशुक्लादिरूपविषयकत्वेन तत्रावयविनि शुक्लादिप्रतीत्युपपादनं युक्तिसङ्गतम्, किन्तु साक्षात्सम्बन्धेनैव शुक्लादिविषयकत्वेनैव, एतेन चित्रपटादौ न शुक्लादिविशेषरूप, नापि चित्ररूपं, किन्तु सामान्यमेव रूपं चित्रपटप्रत्यक्षान्यथाऽनुपपत्त्या कल्पनीयम् , अन्यथा प्रत्यक्षम्प्रति उद्भूतरूपस्य कारणत्वेन तदभावे चाक्षुषतत्प्रत्यक्षमेव न स्यादित्यपास्तम् । रूपविशेषाणामभावे चित्ररूपः पट इति प्रतिभासो न भवेत् , किन्तु रूपवान् पट इत्येव स्यात् , यद्यपि अशेषविशेषविनिर्मुक्तं सामान्य नास्त्येवेति तथा कल्पना न सम्भवत्येव, तथापि यदि कश्चिदेवं कल्पयेत् सोऽपि उक्तप्रतिमासामावप्रसक्त्या निरसनीयः, अत्र यथा चित्ररूपः पट इति प्रतिभासो न भवेदिति दोषस्तथा तत्तदवयवावच्छेदेन चित्रपटे चक्षुस्सन्निकर्ष सति शुक्ला पटः पीतः पट इत्यादिप्रतिभासानामनुभूयमानानामभावप्रसङ्गोऽपि दोषः, स चैकाधिकरण्यावच्छिन्नशुक्लादिसमुदाय एव कथञ्चित्समुदाय्य. तिरिक्तं चित्रमिति शुक्लादिग्रहे सत्येव चित्रप्रतिभास इति चित्रप्रतिमासाभावाशुक्लादि. प्रतिमासामावप्रयुक्त एवेति हेतोश्वित्रप्रतिभासामावप्रसत्या शुक्लादिप्रतिमासामावप्रसक्तिरप्याक्षिसेव, यतः शुक्लादीनां द्विव्यादीनां तत्र प्रतिमासे तत्समुदायात्मकस्य
"Aho Shrutgyanam"