________________
सम्मति काण्ड ३, गा० ६०
1
चित्ररूपस्यापि प्रतिभासस्स्यादेव, तस्माच्चित्रपटे चित्ररूपमिव शुक्लादिनानारूपमप्युररीकर्त्तव्यम् । किश्च यदि चित्ररूपमिव शुक्लादिनानारूपमपि पटे स्वीक्रियते तदा शुक्लाद्येकैकावयवावच्छेदेन चक्षुस्सन्निकर्षे शुक्लाद्येकैकरूपस्य प्रत्यक्षं शुक्लपीतादिनानावयवावच्छेदेन चक्षुस्सन्निकर्षे चित्ररूपस्य प्रत्यक्षमिति विभाग उपपद्यते, चित्ररूपस्यैकस्यैव सद्भावे तु शुक्लाद्येकै कावयवावच्छेदेनापि चक्षुस्सन्निकर्षे चित्ररूपप्रत्यक्षं स्यात्, तत्र तत्सद्भावात्, शुक्लादिनानारूपाणामभावेन तत्प्रत्यक्षं न स्यात् । ननु रूपप्रत्यक्षं तत्र भवत्येव, चित्रत्वप्रत्यक्षे तु परम्परयाऽवयवगतनी लेतररूपपीते वररूपादिग्रहस्य कारणत्वेन शुक्लाऽवयवावच्छेदेन चक्षुस्सन्निकर्षे शुक्केतररूपग्रहस्याभावेन एवं पीतावयवावच्छेदेन चक्षुस्सन्निकर्षे पीतेतररूपग्रहस्याभावेन कारणाभावादेव न चित्रत्वस्य प्रत्यक्षम्, अत एव च व्यणुकावयवगतरूपस्याऽप्रत्यक्षत्वेन परम्परया त्रसरेणावपि तस्य ग्रहाभावेन तद्रूपकारणाभावात् त्र्यणुकचित्रस्य प्रत्यक्षं न भवतीति स्वीकुर्वन्त्युदयनाचार्याः । यदि च चित्रत्वनिष्ठविषयतासम्बन्धेन प्रत्यक्षे स्वविशेष्यसमवेतसमवेतत्वसम्बन्धेन परम्परयाऽवयवगतनीलेतरपी ते तररूपादिमश्वग्रहस्य हेतुत्वे परम्परया घटावयत्रगत नीलेतररूपादिग्रहस्यापि स्वविशेष्यसमवेतसमवेतत्वसम्बन्धेन चित्रपटगतचित्ररूपगतचित्रत्वे सच्चम् यतः स्वं घटावयवगतनीले तररूपादिग्रहः तद्विशेष्यो घटः तत्समवेतं घटगतचित्ररूपं तत्समवेतत्वं चित्रत्वे, तच्च चित्रत्वं यथा घटगतचित्ररूपे तथा पटगतचित्ररूपेऽपीति तादृशग्रहात्मक हे तो सच्चाच्छुक्लावयवावच्छेदेन चित्रपटेन सह चक्षुस्सन्निकर्षे सति चित्रपटगत चित्ररूपवृत्तिचित्रत्वस्य प्रत्यक्षापत्तिस्स्यादिति विभाव्यते, तदा विशेष्यतासम्बन्धेन चित्रत्वप्रकारकप्रत्यक्षं प्रत्येव परम्परयाऽवयवगतनीलेतरपीतेतररूपादिमध्वग्रहस्य स्वविशेष्यसमवेतत्वसम्बन्धेन हेतुत्वम् एवञ्च घटावयवगतनीलेतररूपादिग्रहस्य स्वविशेष्यसमवेतत्वसम्बन्धेन घटगतचित्ररूप एव सच्यं, न तु चित्रपटगतचित्ररूपे इति न तस्योक्तकारणाभावात् प्रत्यक्षापत्तिः, न चावयवगतनीलेतररूपादिग्रहस्य नीलेतररूपत्वाद्यवच्छिन्न प्रकारताकग्रहत्वेन हेतुत्वं न सम्भवति, यत्रावयवगतनीलेतररूपादेर्न नीलेतररूपत्वादिना ग्रहः, किन्तु पीतत्वनीलत्वशुक्लत्वादिना ग्रहस्तत्राप्यवय विचित्रप्रत्यक्षोत्पत्तिर्भवति, न च तत्र नीलेतररूपत्वादिना ग्रह इति व्यभिचारेण तद्रूपेण चित्रप्रत्यक्षं प्रति कारणत्वासम्भवादिति वाच्यम्, विलक्षणचित्रप्रत्यक्षम्प्रति नीलेतररूपत्वादिना ग्रहस्य कारणत्वं द्विलक्षणचित्रप्रत्यक्षम्प्रति तु नीलत्वापीतत्वादिनाऽवयवगतनीलपीतादिग्रहस्य कारणत्वमित्येवं कार्यतावच्छेदकभेदेन कारणताभेदोपगमे व्यभिचाराऽप्रसक्तेः । अथवा नीलेतररूपादेः पीतादेश्व नीलेतररूपत्वादिव्याप्यधर्मेण ग्रहस्य चित्रप्रत्यक्षे कारणत्वं नीdarरूपत्वादिव्याप्यं च नीलेतररूपत्वं पीतत्वादिकञ्चेति नीलेतररूपादिग्रहस्य पीतादिग्रहस्य च नीलेतररूपत्वादिव्याप्यधर्मप्रकारक ग्रह त्वेनैकरूपेण कारणत्वसम्भवाद्वैलक्षण्यस्य
+
४.
३७७
"Aho Shrutgyanam"