________________
ब्रम्मति काण्ड ३, गा० ६० कार्यतावच्छेदकको टावप्रवेशेऽपि न व्यभिचारः, तथा चोक्तकारणाभावात् व्यणुकचित्ररूपप्रत्यक्षं न भवतीत्युदयनाचार्यमतं सङ्गतमेवेति चेत्, अत्र समाधीयते - अवयवगतनीलेतररूपपीतेतररूपादिमवग्रहरूपकारणस्य पूर्वोक्तस्याभावाल्यणुक चित्ररूपप्रत्यक्षानभ्युपगमे चतुरणुकचित्रप्रत्यक्षं न स्यात्, यतो यत्र चित्ररूपं तत्र शुक्लादिनानारूपं यदीष्टं भवता स्याचदा त्र्यणुक चित्ररूपाग्रहेऽपि शुक्लादिरूपग्रहसम्भवेन नीलेतररूपादिग्रहत्वेन तस्य चित्ररूप ग्रहम्प्रति कारणत्वतस्तेन चतुरणुकचित्रप्रत्यक्षं भवदुक्त कार्यकारणभावचलात्सम्भवेदपि, न च तथेष्टम्, तथा च चित्रावयवारब्धचित्रावय विचित्र ग्रहेऽवयवविशेष्य कनी लेतररूपत्वादिव्याप्यचित्रत्वावच्छिन्न प्रकारकग्रहस्यैव हेतुत्वं वाच्यम्, तद्बलात् चतुरणुकचित्रप्रत्यक्षं तदा स्याद्यदि व्यणुकचित्र प्रत्यक्षं भवेत्, न च भवदुक्तकार्यकारणभावे तत् सम्भवतीति विशेष्यतासम्बन्धेन चित्रत्वप्रकारकप्रत्यक्षे परम्परयाऽवयवगतनी लेतररूपादिमवग्रहस्य स्वविशेष्यसमवेतत्वसम्बन्धेन हेतुत्वं न युक्तम्, तथा च सन्निकर्षमात्रस्यैव हेतुत्वेन यदि चित्रावयविनि नानारूपं नाभ्युपगम्यते तदा शुक्लावयवावच्छेदेनापि चक्षुस्सन्निकर्षे चित्रप्रत्यक्षापत्तिस्स्यादेवेति चित्रावयविनि नानारूपमभ्युपेयमिति चित्रावयविनि शुक्लावयवावच्छेदेन शुक्लरूपस्यैव प्रत्यक्षमिति निर्गलितार्थः । यदि चावयविनि शुक्लादिनानारूपस्याभावेऽपि न शुक्लावयवावच्छेदेन चक्षुस्सन्निकर्षे सति चित्ररूपप्रत्यक्षापत्तिः, शुक्लेतरनीलेवर पीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्य चित्ररूपप्रत्यक्षे कारणत्वेन शुक्लावयवावच्छेदेन चक्षुस्सनिकर्षस्थले तदभावात् न च यत्रावयवनीलादिगतनीलत्वादिग्रहप्रतिबन्धक दोषसद्भावस्त श्रावयवनीलाद्यग्र हे चित्ररूपप्रत्यक्षं न भवति, तदपि स्यात्, नीलेतरपीतेतररूपादिमदवयवा बच्छेदेन सन्निकर्षस्य सद्भावात् । यदि च तदनुरोधेनावयव गतनी लेतररूपादिमध्चग्रहस्यापि कारणत्वं तत्रोपेयते तदा त्रसरेणुचित्र प्रत्यक्षानुपपत्तिस्तदवस्थैवेति वाच्यं, अवयवगत नीलादिगतनीलत्वादिग्रह प्रतिबन्धक दोषाभावानामपि चित्रत्वप्रत्यक्षे हेतुत्वाभ्युपगमेन तत्र चित्रत्वप्रत्यक्षापत्तिवारणात् । एवञ्च त्रसरेणुचित्र प्रत्यक्षमप्युपपद्यते, यतो यत्रैकस्य द्व्यणुकस्य नीलं रूपमपरस्य पीतमित्यादिस्थल एव चित्रं त्र्यणुकं भवति, तत्र नीलेतरपी तेतररूपादिमद्व्यणुकात्मकावयवावच्छेदेन व्यणुके चक्षुस्सन्निकर्षो विद्यते, द्वयणुके महश्वाभावादेव न तद्गतनीलादिप्रत्यक्षमिति तत्प्रतिबन्धको दोषस्तत्र नास्तीति तदभावोऽपि विद्यत इति व्यणुकचित्रप्रत्यक्षं तेन स्यादेवेति विभाव्यते, तदा नीलपीतादिव्यक्तीनां भेदात्तद्गतनीलत्वादिग्रहप्रतिबन्धक दोषाणामननुगतत्वात्तदभावानामप्यनेकत्वात्तेषां चित्रप्रत्यक्षे कारणत्वेऽनन्तहेतु. हेतुमद्भावकल्पनगौरवं स्यात्, अतः क्लुप्तेष्वेव नीलादिनानारूपेषु चित्रत्वं व्यासज्यवृत्य. भ्युपगन्तव्यम्, तस्य च समानाधिकरणनानारूपग्रह व्यङ्ग्यत्वमिति नानारूपग्रहे सत्येव चित्रत्वग्रह इति शुक्लाद्ये कावयवावच्छेदेन चक्षुस्सन्निकर्षे शुक्लाद्येकरूपस्यैव ग्रहात्समानाधिकरणनानारूपग्रहरूपव्यञ्जकाभावेन न तत्र चित्रत्वग्रहः । न चैत्रमपि गौरवम्, समानाधिकरणनाना
३७८
" Aho Shrutgyanam"