________________
सम्मति० काय ३, गा. . रूपाणामननुगतत्वेन समानाधिकरणनीलपीतग्रहा, एवं समानाधिकरणरक्तशुलग्रहः, इत्या. दीनां मिमानां भिन्नरूपेण कारणत्वेनानेकविधकारणत्वप्रसङ्गादिति वाच्यम् । समानाधि. करणनानारूपग्रहाणां भेदगर्भसामानाधिकरण्यसम्बन्धेन रूपविशिष्टरूप ग्रहत्वेनैकरूपेण कारणस्वस्यैव चित्रत्वप्रत्यक्षम्प्रत्यभ्युपगमेनोक्तगौरवाभावात् । यत्र रूपविशिष्टरूपग्रहो नास्ति तत्र सन्निकर्षमात्राचित्रत्वानवगा व चित्रप्रत्यक्ष भवति। एतच्च परम्परयाऽवयवगत नीलेतरपीतेतररूपादिमत्त्वग्रहस्य चित्रत्वप्रकारकचित्रप्रत्यक्षे हेतुत्वपक्षेऽपि भवदभ्युपगते समानम् , एतत्पक्षे चित्ररूपमतिरिक्तं नास्ति, किन्तु नानारूपाणामेव चित्रत्व जात्या व्यासज्यवृत्तिरूपया ग्रहणे सति चित्रत्वव्यवहारो भवति । यदि च यत्र शुक्लादिनानारूपाण्यत्रयविन्यनुभूयन्ते सत्र नानावयवावच्छि अपर्याप्तवृत्तिकमेकं चित्ररूपमप्यनुभूयते, तस्य चैकावयवावच्छेदेना. भावादेवैकावयवावच्छेदेन चित्राभावप्रतीतिरप्युपपद्यते तदा चित्रावयविद्रव्यस्य शुक्लादिनानारूपस्वभावत्वं चित्रैकरूपात्मकस्वभावत्वञ्चेत्येकानेकचित्रद्रव्यस्वभावः स्याद्वादतच. विद्भिः परिदृष्टोऽभ्युपगन्तव्य एव, तत्र शुक्लादिस्वभावो देशनियतधर्मी, चित्रस्त्रमाव: स्कन्धनियतधर्म इति देशग्राहकसामग्रीत: शुक्लादिग्रहः, स्कन्धग्राहकसामग्रीत: चित्ररूप. स्वभावग्रहः इति कदाचिद्देशावच्छेदेनेन्द्रियसन्निकर्षे शुक्लायेकैकरूपवत्तया शुक्ला पट इत्याकारकं चित्रपटप्रत्यक्षं कदाचिच्च स्कन्धावच्छेदेनेन्द्रियसत्रिकर्षे चित्र: पट इत्याकारक चित्रप्रत्यक्षमिति नियम उपपद्यते, अनयैव दिशा द्विहस्तादिमितेऽवयविनि देशावच्छेदेन क्तिस्त्यादिमितानेकपरिमाणवत्त्वं स्कन्धावच्छेदेन द्विहस्तादिमितैकपरिमाणवत्वमित्येकाने कपरिमाणवत्वमपि स्वीक्रियते, तत्र च नानापरिमाणानि देशनियतधर्मात्मकानि, विवक्षितेकपरिमाणं तु स्कन्धनियतधर्मात्मकमिति देशावच्छेदेन सन्त्रिकर्षे देशनियतवितस्त्यादिपरिमाणस्य प्रत्यक्षं स्कन्धावच्छेदेन सन्निकर्षे स्कन्धनियतविवक्षितपरिमाणस्य प्रत्यक्षम् , एवं चित्ररसस्पर्शगन्धादिस्थलेऽपि ज्ञातव्यमिति दिछ । चित्रद्रव्यमेव स्वसामग्रीप्रभवमभ्युपगन्तव्यम्, तत एवं चित्रतदितररूपोमयस्वभावस्य द्रव्यस्य सम्भवः, न त्ववयवगतशुक्लादिप्रत्येकरूपेणावयविनि शुक्लादिसमानजातीयरूपस्य शुक्लेतररूपादिषट्केनावयवगतेन तत्र चित्ररूपस्य चोत्पत्तिरित्येकान्ताभ्युपगमो युक्तः, तथा सति यत्रैकस्मिन्नवयवे उत्कृष्टं नीलमपरस्मिंश्वापरुष्टं नीलं तदन्यस्मिन्नवयवेऽपकृष्टतरं नीलं तैरप्यवयविनि चित्रस्पमुत्पद्यते, उत्कर्षापकर्षाश्च नीलादिप्रत्येकगता अनन्तप्रकाराः, तैरुत्पद्यमानमपि चित्ररूपमनन्तप्रकारं तत्र नैयायिकपरिकल्पितनीलेतररूपादिषट्कं नास्ति । अथ च चित्ररूपं भवदीति व्यभिचारेण नीलेतररूपादिषट्कस्य चित्ररूपसामान्य प्रति कारणत्वं न सम्भाति, विजातीयचित्रम्प्रति नीलेतररूपादिषट्कस्य कारणत्वं तदन्यविजातीयचित्रम्प्रति उत्कृष्ट नीला अपकृष्टनीलादिसमुदायस्य कारणत्वमित्यभ्युपगमे तरतमभावेन नीलत्वाद्यवान्तरजातिमेदानामनन्तत्वेन तद्वत्समुदायप्रभवचित्ररूपवजात्यानामप्यनन्तत्वेन तत्तद्विजातीयचित्रप्रति
"Aho Shrutgyanam