________________
३८०
सम्मति काम ३, गा• . तत्चद्विजातीयोत्कृष्टापकष्टनीलादिसमुदायस्य कारणत्वेऽनन्तकार्यकारणभावप्रसङ्गतो गौरवं स्यादतो वृद्धिहानिभ्यां पदस्थानपतितवर्णपर्यायवचित्रद्रव्यं स्वसामग्रीप्रभवमेवाभ्युपेयम्, न च तत्र नीलत्वादिकमवयवगतनीलादिकार्यतावच्छेदकं, चित्रत्वश्चोत्कृष्टापकृष्टावयवगतनीलादिकार्यतावच्छेदकम् , पटत्वादिकश्च तन्स्वादिकार्यतावच्छेदकमिस्येवं तत्तकारणनियम्यतत्तत्कार्यतावच्छेदकसमष्टिसद्भावत एकानेकस्वभावचित्रद्रव्यत्वस्यार्थसमाजसिद्धत्वेन न तदवच्छिन्नम्प्रति कस्यचित्कारणत्वमिति चित्रद्रव्यस्य स्वसामग्रीप्रमवत्वाभ्युपगमो न सम्भवतीति वाच्यम्, उक्तदिशाऽर्थसमाजसिद्धतया परसमर्थितस्य निरुक्तचित्रद्रव्यत्वस्य तथामव्यत्वस्य स्वभावविशेषस्य कार्यतावच्छेदकत्व स्वीक्रियते, तथामवत्वस्वभावनलायोत्पद्यमानं तद्रव्यमेकानेकस्वभावमेवोत्पद्यते, न तु तदन्तम्पत्रिष्टनीलवचित्रत्वादिधर्माणां स्वस्वप्रतिनियतसामग्रीबलात्तत्र सम्पत्तिा, अतो वस्तुतो नार्थसमाजसिद्धत्वं निरुक्तचित्रद्रव्य. त्वस्येति । एतेन यत्र शुक्लायेकैकावयवावच्छेदेन चक्षुस्सनिकर्षस्तत्रैकचित्ररूपपक्षे चित्र. प्रत्यक्षापादनं यत्प्राकृतं तन युक्तम्, चित्रप्रत्यक्षजनकतावच्छेदकतया चक्षुस्संयोगगतवैजात्यस्य स्वीकारेण तादृशवैजात्यस्यैकावयवावच्छेदेन चक्षुस्संयोगेऽमावेन तत्र चित्रप्रत्यक्षापत्यसम्भवादिति निरस्तम्, सूक्ष्मेक्षिकयाऽनन्तावान्तरचित्रानुभवादनन्तवैजात्यकल्पनापते. रत्यन्ताप्रामाणिकत्वादिति दृष्टव्यम् । चित्रावयविनि नैकं चित्ररूपं किन्त्वव्याप्यवृत्तीनि शुक्लनीलादीनि नानारूपाण्येवेति नव्यनैयायिकमतेऽन्यवयवगतोत्कृष्टापकृष्टनीलाभ्यामवयविन्यवच्छिन्नयोरुत्कृष्टापकृष्टनीलयोरुत्पत्तिः स्यात्, तत्चदवयवावच्छिन्नोत्कृष्टनीलम्प्रति कारणस्य तत्तदवयवगतोत्कृष्टनीलस्य तत्तदवयवावच्छिभापकृष्टनीलम्प्रति कारणस्य तत्तदवयवगतापकृष्टनीलस्य च सत्चात्, तथा समवायसम्बन्धेन नीलम्प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलं कारणमिति तद्घटितसामान्यसामग्रीवलादनवच्छिमस्य नीलस्य चोत्पत्तिा प्रसज्येत, यदि च अवयविगतनीलतरत्वाधवच्छिन्नं प्रति अवयवगतनीलतरत्वादिनाऽवयवगतनीलतरादेरेव कारणत्वमुपेयते, न तु नीलम्प्रति नीलस्य सामान्यतः कार्यकारणभाव इति न तत्रानवच्छिन्नस्य नीलस्योत्पत्तिः, तदा एतावत्कारणसमुदायलक्षणसामग्रीसचे नीलत्वावच्छिन्नस्योत्पत्तिरिति निश्चयाभावलक्षणाकस्मिकत्वतो नीलत्वावच्छिन्नार्थितया प्रवृत्तिविरह आसज्येत, यत्र चोत्कृष्टापकष्टनीलादिलक्षणावच्छिन्ननीलविशेषाः प्रतीयन्ते तत्रानवच्छिन्नं नीलसामान्यमपि प्रतीयते तादृशप्रतीतेर्नीलसामान्यानुत्प. तावनुपपद्यमानत्वं स्यात् , यत्र च पटे केवलशुक्लमेव रूपं, तत्रापि स्वल्पबह्ववयवावच्छेदेने. न्द्रियसन्निकर्षेऽणुमहत्वोपेतशुक्लविशेषास्तदनुषक्तं शुक्लसामान्यं च प्रतीयत एवेत्येकानेकरूपविशिष्टतया द्रव्यप्रतीतिरेकानेकवर्णविशिष्टद्रव्यपरिमाणाभ्युपगम विना न कथमपि सम्भवतीत्येकानेकस्वरूपद्रव्याभ्युपगमः स्याद्वादिनः प्रमाणचूलामवलम्बते । एतेन चित्ररूपस्य व्याप्यवसेरेकस्याभ्युपगमपक्षे रूपमात्रस्य सर्वत्र व्याप्यचेरेवाभ्युपगमाम तस्य
"Aho Shrutgyanam"