________________
सम्मति का , गा० .
३८१ किञ्चिदवच्छेदेन प्रत्यक्षं, यदुपपत्तये कारणान्तरं कल्पनीयं भवेत् , अव्याप्यतिनीलाधम्यु. पगमपक्षे तु किश्चिदवच्छेदेन तत्प्रत्यक्षोपपतये कारणान्तरं कल्पनीयमिति गौरव मिति न, यतोऽव्याप्यत्तिसंयोगादिप्रत्यक्षानुरोधेन अन्याप्यत्तिद्रव्यसमवेतनिष्ठविषयतासम्बन्धेन चाक्षुषप्रत्यक्षत्वावच्छिन्न प्रति चक्षुरिन्द्रियस्य स्वसंयोगावच्छेदकावच्छिन्नसमवायसम्बन्धा. बच्छिमाधारतासन्निकर्षेण यत्कारणत्वं तेनैवाव्याप्यवृत्तिनीलादिप्रत्यक्षस्य सम्भवे न तदर्थ कारणान्तरं कल्पनीयं, यत्र नीलपीतकपालिकाभ्यामेकं नीलपीतोमयरूपवत्कपालं द्वितीयमपि तथाविधमेव कपालं ताभ्यामारब्धस्य घटस्य नीले नीलकपालिकैव परम्पराsवच्छेदिकेत्युक्तसभिकर्षतश्चक्षुषा तत्प्रत्यक्षमप्युपपद्यत इति निरस्तम्, शाखामूलोभयावच्छेदेन वृक्षे दीर्घतन्तुसंयोगस्यानुभवसिद्धस्य प्रत्यक्षे चक्षुषो यथा स्वसंयोगावच्छेदकशाखामूलोमयावच्छिमसमवायसम्बन्धावच्छिन्नाधारतासभिकर्षण कारणत्वं तथा नीलनीलतरोभयाद्यवयवावच्छिन्नविलक्षणरूपस्यानुभवसिद्धस्य प्रत्यक्षे चक्षुषः स्वसंयोगावच्छेदकनीलनीलतरोभयपर्याप्तावच्छेदकताकसमवायसम्बन्धावच्छिनाधारतासभिकर्षण कारणस्वकल्पनस्यावश्यकत्वात् , यदि चोक्तसंयोगस्थले नैकः संयोगोऽवयवद्वयावच्छिन्ना, किन्त्वेकैकावयवावच्छिन्नसंयोगद्वय एव, एवं नीलनीलतरावयवोभयावच्छिन्नमपि न विलक्षणेकरूपं, किन्तु नीलाक्यवावच्छिन्ननीलमवयविन्यन्यदन्यच्च नीलतरावयवावच्छिन्नं नीलतरमिति न नीलनीलतरोमयपर्याप्तावच्छेदकताकसमवायसम्बन्धावच्छिन्नाधारतासभिकर्षकल्पनस्यावश्यकत्वमित्युच्यते, तदा सजातीयविजातीयपदार्थेषु जायमानं समूहालम्बनं शानं यथैकं तथा नीलनीलतरावयवरूपैश्च सर्वैरवयविनि स्वस्वावच्छेदेन समुत्पद्यमानं रूपमविरोधायापकमेवोत्पद्यत इति वृत्तिकृतोऽमिमतमसङ्गतमापयेत, ननूपदर्शितसंयोगस्थले तत्तदवयवावच्छेदेन संयोगद्वयमप्यनुभूयते कात्स्ये नैकसंयोगोऽप्यनुभूयत इत्येकानेकसंयोगकल्पनं तथैवैकानेकरूपकल्पनमपि युक्तमेवेत्युच्यते तदैकानेकस्वरूपवस्तुस्वीकर्वस्याद्वादिन एव जेतृता, एतेन नानारूपवदवयवाररुधे व्याप्यवृत्तीन्येव नीलपीतादीन्युत्पद्यन्ते, नीलादिकं प्रति नीलेतरादिप्रतिबन्धकत्वनीलादिकारणत्वकल्पनापेक्षया व्याप्यत्तिनीलादिकल्पनाया एव न्याय्यत्वादित्यपि परेषां मतं निरस्तम्, नीलकपालावच्छेदेन चक्षुसभिकर्षे पीतायुपलम्भापत्तेरपि तत्र दोषत्वात् , तदाहुः सम्मतिटीकाकृत:-" आश्रयव्यापित्वेऽप्येकावयवसहितेऽप्यवयविन्युपलभ्यमानेऽपरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात् , सर्वरूपाणामाश्रयव्यापित्वादिति "। न च नीलाद्यवयवावच्छिमसन्निकर्षस्य नीलादिप्राहकत्वकल्पनया न दोषः, यत्र नीलपीतकपालिकाभ्यां नीलपीतरूपद्वयवत्कपालमेकमपरश तथा ताभ्यां नीलपीतोमयवद्घटस्योत्पत्तिा, तत्र निरुक्तघटे नीलरूपस्य पीतकपालिकावच्छिन्ननीलपीतोमयकपालावच्छेदेन चक्षुस्सन्त्रिकर्षात्प्रत्यक्षापत्तेः । नीलग्राहकस्य नीलपीतोभयरूपवत्कपालात्मकनीलावयवावच्छिन्नसनिकर्षस्य सद्भावात् , न च नीलप्रत्यक्षे
"Aho Shrutgyanam"