________________
सम्मति काण्ड रे, गा० ६१
hreatoranवावच्छिन्नसन्निकर्ष एव कारणमिति नीलपीतोभयवत्कपालस्य केवलनीलावयवरूपत्वाभावात्पीत कपालिकायाश्च नीलरूपवस्वस्यैवाभावान्न पीतकपालिकावच्छिन्ननीलपीतोमय कपालावच्छेदेन सन्निकर्षाद् घटनीलप्रत्यक्षापत्तिरिति वाच्यं यत्र नीलपीतपरमाणुयामेकं नीलपीतोभयवद्व्यणुकं तथा द्वितीय तथा तृतीयं च व्यणुकमुत्पन्नं, तैथ त्रिभिर्नीलपीतो भवद्भिणुकैर्नीलपीतोभयवणुकमुत्पद्यते तस्य त्रसरेणोनलस्य प्रत्यक्षं न स्यात्, daarata व्यणुकस्य केवलनीलत्वाभावेन तदवच्छिन्नत्रसरेणुचक्षुस्सन्निकर्षस्य केवलनीलावयवावच्छिन्नसन्निकर्षत्वाऽभावात्, नीलपरमाणुरूपावयव परम्परावच्छिनत्रसरेणुचक्षुस्सभि कर्षस्य केवलनीलावयवावच्छिन्नसन्निकर्षरूपत्वेऽपि तस्य परमाणुसन्निकर्षस्येव द्रव्याग्राहकत्वेन तद्गतरूपाग्राहकत्वादिति, यथा चोतदिशा एकानेकतया रूपस्य चित्रत्वं व्यवस्थितिपद्धतिमेति तथा वस्तुमात्रेऽपि, ग्राह्ये यथा चैकानेकतया चित्रस्वभावत्वमनुभवसिद्धं तथा ग्राहके ज्ञानेऽपि तत्राखण्डाया एकाकारतायाः सखण्डानाश्च नानाप्रकारताविशेष्यतासांसर्गिकविषयतानां परनिरूपितानां शुद्धानां चानुलोमप्रतिलोमभावेन समान संवित्संवेद्यतानियामक वैचित्र्यशालिनीनाश्च बह्वीनामनुभवात्, अत एव " सावज्जजोगविरओ तिगुत्तो छसु संजओ, उवउत्तो जयमाणो आया सामाइयं होइत्ति " सप्तनयात्मक महावाक्यार्थजज्ञाने एका विशिष्टा प्रमाणाकारता अनेकाचांशिक्यो नयविषयताः परस्परसंयोगजाथ बहयोऽनुभूयन्त इति, यदा च चित्ररूपदृष्टान्तावष्टम्भेन सर्वेषां ग्राह्माणां ग्राहकाणाश्वाने कान्तात्मत्वं प्रमाणकोटिमाटीकते तदा तन्निराकरणं चित्रे एकानेकस्वरूपं रूपं प्रामाणिकमभ्युपगयायिकवैशेषिकैः कर्तुमशक्यमिति सुष्ठुक्तम्
ર
" चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् ।
योगो वैशेषिको वाsपि, नानेकान्तं प्रतिक्षिपेत् ॥ १ ॥” इति ॥ ६०॥ ये तु स्वीयागमसूत्र तात्पर्यविवेचनाऽकुशलिनः प्रत्यक्षादिप्रमाणवाधितार्थस्याप्यागमस्यान्धपरम्परान्यायेन प्रामाण्यमाश्रयन्ति ते परमार्थदृष्ट्वाऽनवगतसूत्र तात्पर्यार्था एवेति प्रतिपादयितुमाह
पाडेक्कनय पहगयं, सुत्तं सुत्तहरसहसंतुट्ठा |
अविकोवियसामत्था, जहागमविभत्तपडिवत्ती ॥ ६१ ॥
6
" पाडेक्कनयपहगयं सुत्तं " प्रत्येकनयपथगतं सूत्रम् - एकैकसङ्ग्रहादितत्तन्नय प्रसृततत्तस्परवाद्यागमगतं सूत्रं ' अथातो ब्रह्मजिज्ञासा ' जन्माद्यस्य यतः ' इत्यादिवेदान्तदर्शनसूत्रं, ' अथातो धर्मजिज्ञासा ' ' चोदनालक्षणोऽर्थो धर्मः' इत्यादिमीमांसादर्शनसूत्रम् ।
धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधयां तत्वज्ञानान्निःश्रेयसम् ॥ ४ ॥ इत्यादि वैशेषिकदर्शनसूत्रम् ।
"Aho Shrutgyanam"