________________
सम्मति काण्ड ३, गा० ६२
३८ई
"}
4
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्त सिद्धान्तावयव तर्कनिर्णय वा दजल्पवितण्डा हेत्वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानाद् निःश्रेयसाधिगमः ॥ १ ॥ इत्यादिनैयायिकदर्शनसूत्रम्, परलोकिनोऽभावात् परलोकाभावः । १ । इत्यादिचार्वाकमतसूत्रम्, " क्षणिकाः सर्वसंस्कारा विज्ञानमात्रमेवेदं भो जिनपुत्राः । यद् इदं त्रैधातुकं " इति " ग्राह्यग्राहकोभय1 शून्यं तवम्" इति बौद्धदर्शन सूत्रश्चाधीत्य " सुत्तहरसद संतुडा सूत्रधरशब्द सन्तुष्टाःसूत्रधरा वयम्' इति शब्दमात्र सन्तुष्टा अखर्वगर्व गर्विष्ठाः, ' अविकोवियसामत्था ' अविकोविदसामर्थ्या:- विशिष्टाः कोविदाः पण्डिता विकोविदाः पण्डिततमाः, न विकोविदा इत्यविकोविदाः, तेषां सामर्थ्यमिव सामर्थ्यं येषां ते अविकोविदसामर्थ्याः, अविदितसूत्रान्तर्गतपरमरहस्यभूतभावार्थाः । कथं ते तथाविधा इत्याशङ्कायां तत्र हेतुमाह — यथागमविभत्तपडिवत्ती - अत्राकारमश्लेषाद् यथागमाविभक्तप्रतिपत्तयः आगममनतिक्रम्येति यथागमं यथाश्रुतमित्यर्थः यथागममेवाविभक्ता अविविक्ता प्रतिपत्तिर्बोधो येषां ते तथा, यस्मिन्नर्थे सूत्राभिप्रायस्तदनभिज्ञत्वेन तद्व्यतिरिक्तविषयप्रतिपत्तित्वादितरजनवत्, तत्तन्नयाधीन सप्तभङ्गथादिसङ्घटितयथार्थसूत्रार्थवियेवनतत्परबुद्धिहीना इत्यर्थः । अथवा स्वयूथ्या एव एकनदर्शनेन कतिचित्सूत्राणि अधीत्य केचित् ' सूत्रधरा वयम्' इति गर्विता यथावस्थिताऽन्यनयसव्यपेक्षसूत्रार्थापरिज्ञानाद् अविदितस्ववैदुष्यस्वरूपा यथागमाविभक्तप्रतिपचय इत्यभिप्राय: ॥ ६१ ॥
अन्यनयानपेक्षैकनयमाश्रित्य सूत्राभिप्रायं व्यावर्णयतां तेषां दूषणोपदर्शनायाहसम्म हंसणमिणमो सयलसमत्तवय णिज्वणिद्दोसं । अतुक्कोसविणट्ठा सलाहमाणा विणाति ॥ ६२ ॥
' सम्महंसणमिणमो' सम्यग्दर्शनमेतत् तर्हिक स्वरूपमित्याशङ्कायामाह - 'सयलसमत्तवणिणिद्दोसं 'सकलसमाप्तवचनीयनिर्दोषम् - गजनिमीलिकान्यायेन परस्परस्वविषयेतरविपयापरित्यागप्रवृत्ताशेषतत्तन्नयगोचरजिनप्रज्ञप्ताशेष भावविषयकसमूहालम्बनज्ञानविशेषात्मकं सम्यग्दर्शनम्, तच्च स्यान्नित्यमित्यादिसकलधर्मपरिसमाप्तवचनीयतया निर्दोषम् निरुक्तस्वरूपं सम्यग्दर्शनं स्यात्पदघटितमेव वचनं प्रवर्त्तयति, स्यात्पदञ्च तत्रैकैकधर्मप्रतिपादकवचनघटकमपि सदनेकान्तद्योतकत्वात्सकलानपि धर्मानवबोधयतीति तद्वदितं स्यानित्यमित्यादिवचनं सकलधर्मप्रतिपादकत्वलक्षणसकलधर्म परिसमाप्तत्ववदिति तत्प्रवर्त्तकं सम्यग्दर्शनं सकलधर्म परिसमाप्तवचनीयं तच्चेन च निर्दोषम् । ननु स्यात्पदघटितं वचनं सकलधर्मप्रतिपादकं चेत्तर्हि सकलधर्मान्तर्गताऽनभिलाप्यधर्मप्रतिपादकमपि स्यात्, ओमिति चेर्हि वचनप्रतिपाद्यत्वादनभिलाप्यभावा एव न स्युरिति चेद्, मैवम्, थतोऽनभिलाप्यमावा अपि स्वस्वासाधारणधर्मस्वरूपेणानभिलाप्याः, न तु प्रमेयत्वादिस्वरूपेणापि,
" Aho Shrutgyanam"