________________
fc
सम्मति० काम ३, गा० ११ अन्यथा प्रमेयत्वादिविकलास्ते शशशृङ्गकल्पास्स्युः । अत एवानभिलाप्यमावे प्रमेयत्वादिना स्याद्वक्तव्यः स्वासाधारणधर्मस्त्ररूपेण स्यादवक्तव्य इत्यादिसप्तमङ्गीसङ्घटना युज्यते, नान्यथेति । तरिक कुर्वन्तीत्येवं कियाकाङ्क्षायामाह-' विणासेंति' विनाशयन्ति, ते के इत्याशङ्कायां तत्कर्वभूतपदमाह-' अत्तुकोसविणट्ठा सलाहमाणा' आत्मोकर्षविनष्टा: श्लाघमानाः। अयम्भाव:-एकनयवादिनस्त्वविषये सूत्राभिप्राय व्यावर्ण्य सूत्रचरितार्थीकरणेनात्मोत्कर्षेण विनष्टा अनेकान्तकरम्बितवस्तुबोधं प्रत्यनादरभावप्रदर्शनेन स्याद्वाद. तत्वप्रतिपादकागमनत्यनीकाः 'वयं सूत्रधराः' इत्येवं स्त्रं प्रशंसन्तः सम्यग्दर्शनं न स्वात्मनि व्यवस्थापयन्ति ॥ ६२ ॥
अथ न ते आगमप्रत्यनीकास्तद्भक्तत्वात् तद्देशपरिज्ञानवन्तश्चेति कथं तविनाशपन्तीत्याशङ्कानिवृत्यर्थमाह
न हु सासणभत्तीमत्तएण सिद्धंतजाणओ होइ।
न विजाणओ वि णियमा पण्णवणाणिच्छिओ णामं ॥ ६ ॥ 'न हु सासणभत्ती' इत्यादि-न खलु शासनभक्तिमात्रेण सिद्धान्तज्ञाता प्रमाणगोचरानन्तधर्माध्यासितैकैकवस्तुप्रतिपादकस्याद्वादसिद्धान्तस्य ज्ञाता भवति, न च सिद्धान्तप्रतिपाद्यस्याद्वादगर्भयथाऽवस्थितवस्तुतवपरिज्ञानमन्तरेण भावसम्यक्त्वम् , जिनप्रज्ञप्तभिन्नाऽपेक्षाऽविरुद्धनित्यानित्यत्वादिस्याद्वादधर्माङ्कितनिखिलभावावगाहिसमूहालम्बनापायज्ञानात्मकरुचिरूपत्वात्तस्य, स्याद्वादतचरूपेणाज्ञातस्यार्थस्य तद्रूपेण रुचिविषयत्वानुपपत्तेः, अतथाभूतार्थज्ञानस्य च परमार्थदृष्ट्याऽवग्रहादिरूपतयाऽनेकान्तविषयस्यापि तदावरणदोषेणानेकान्तविषयकत्वेनानुल्लिखितस्य तथा रोचयितुमशक्यत्वात् , यच्चासादृशां प्रमादग्रस्तानां प्रवचनानुराग एव शुभोपाय इति मन्यमानानां शासनभक्तिमात्रेण श्रद्धानुसारिणां सम्यक्त्वं तत् 'सत्संख्यादिमार्गणास्थानस्तनिर्णयो भावसम्यक्त्वं, सामान्यतस्तु द्रव्यसम्यस्वम्' इति झानबिन्दुवचनात् तेषामोघतो प्रवचनानुरागमात्रेण " तदेव सत्यं निश्शई यजिनेन्द्रैः प्रवेदितम्" इति ज्ञानाहितवासनारूपं द्रव्यसम्यक्त्वमेवेति जानीहि, 'ण विजाणओ वि णियमा पण्णवणानिच्छिओ णाम' न विज्ञातापि जीवादितत्वैकदेशविज्ञातापि, नियमात् प्रज्ञापनानिश्चितो नाम-नामेति कोमलामन्त्रणे, अनेकान्तात्मकवस्तुस्त्ररूपयथार्थप्ररूपणायां निश्चितो भवति, एकदेशज्ञानवतस्सकलपर्यायविशिष्टवस्तुज्ञानविकलतया सम्यक तत्प्ररूपणाऽसम्भवात् , तथा च पूर्वापरैकवाक्यतया सकलानन्तधर्मात्मकजीवादितत्त्वप्रतिपादकत्रसन्दर्भस्य प्रमाणनयद्वारेण प्रवृत्तस्य तात्पर्यज्ञातैव सिदान्तज्ञाता, न पुनरपरिहृतविरोधतदेकदेशज्ञाता, तस्यैकनयद्वारा प्रवृत्तत्वात् , अत एव न स स्याद्वादग्ररूपणायां सम्यक् समर्थ इति सिद्धम् । जीवाजीवानवादिसप्तपदार्थतत्वनिरूपणं बृहवीकायामसत्कृत
"Aho Shrutgyanam"