________________
३८५
ब्रम्मति का है, गा० ६४
तच्चार्थप्रथमाध्यायविवरणटीकायां च विस्तरेण कृतमिति तत एव चावसेयम् ग्रन्थगौरवभीत्या नेह प्रतन्यते ॥ ६३ ॥
अल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोममनवद्यञ्च, सूत्रं सूत्रविदो विदुः ॥ १ ॥ इति लक्षणं सूत्रम्, अत एव महापुरुषप्रणीतत्वेन गम्भीरार्थमिति न तन्मात्रं प्रमाणनय गर्भतात्पर्यार्थबोधक्षमम्, किन्तु पदार्थ वाक्यार्थ महावाक्यार्थेदम्पर्यार्थ मेदभिन्नव्याख्यानद्वारैवेति प्रतिपादयितुमाह
सुत्तं अत्थनिमेणं न सुत्तमेत्सेण अत्थपरिवत्ती । अस्थाई उण णयवायगहणलीणा दुरभिगम्मा ॥ ६४ ॥
"
?
,
सुतं ' अल्पाक्षरैर्बह्रर्थान् सूचयतीति सूत्रम् ' अस्थनिमेणं' अर्यते परिच्छिद्यत इत्यर्थः, स च द्विविधः, तत्रैकोऽर्थस्सूत्रेण सूत्रितः साक्षात्सूत्रस्याऽभिधेयः, द्वितीयश्च सूचितोऽपयाक्षिप्त, सामर्थ्यगम्य इति यावत्, अत एव चतुर्दशभिरपि पूर्वैः कश्चित्साक्षाद, कचित्तु गम्यतया सर्वोऽप्यभिलाप्यः पदार्थोऽभिधीयत एवेति विशेषावश्यकटीकोक्तं सङ्गच्छते, तस्य निमेनं स्थानं सूत्रम्, अनन्तार्थभृतमेव सूत्रम्, अर्थप्रतिपत्तित्र न निर्युक्त्यादिनिरपेक्षसूत्रमात्रेण, 4 यतुः मूअं केवलसुत्तं जीहा पुण होइ पायडा अत्थो ॥ १५५ ॥ इत्युपदेशरहस्यो क्तेर्व्याख्यानरहितं सूत्रं मूकं मूकपुरुषतुल्यम् कस्यचिदर्थस्यावाचकम्, सूत्रमात्रेण प्रमाणतत्तभयगर्भतास्विकार्थाऽप्रतीतेः, अर्थः पुनः प्रकटा जिह्वा, परावबोधहेतुत्वात् । अर्थः पुन:-" पयवकमहावकत्थमेदपजं च एत्थ चत्तारि । सुयभावावगमम्मि हंदि पगारा विणिदिट्ठा || ८५९ ॥ " इत्युपदेशपदोक्तेः सूत्रभावावगम हेतु भूतः पदार्थवाक्यार्थमहावाक्यार्थेदम्पर्यार्थभेदेन चतुर्द्धा भणितः । तत्र पदार्थो यथाश्रुतार्थः, पद्यते गम्यतेऽर्थः सामान्यरूपोऽचालिताऽप्रत्यवस्थापितो येनेति व्युत्पत्तेः । तदाह - " अत्थपदेण हु जम्हा एत्थ पर्य होह सिद्धं " इति । वाक्यार्थो दूषणोक्तिलक्षणचालनात्मकः, महावाक्यार्थश्च युक्त्या दूषणपरिहारलक्षण प्रत्यवस्थानायोच्चरितस्य वाक्यसमूहात्मक महावाक्यस्यार्थः, ऐदपर्यार्थ तात्पर्यार्थः । एवं प्रतिसूत्रमुक्तक्रमेण व्याख्याने निश्चितप्रामाण्यकं सम्यग्ज्ञानं व्युत्पस्य निराकाङ्क्षप्रतीतिरूपं स्यात्, तच्च वाक्यार्थादिज्ञानं शब्दप्रयोज्यमतिरूपं श्रुतज्ञानाभ्यन्तरं वते श्रुतवृद्धाः, अत एव समानाक्षरलामानां चतुर्दशपूर्वविदामपि षट्स्थानपतितत्वं यथोक्ताक्षरलामानुसारिभिरेव तैस्तैर्गम्यार्थविषयकैः क्षयोपशमवैचित्र्याद्विचित्रतिविशेषैश्रूयते, तथा चोक्तं विशेषावश्यकभाष्ये - " अक्बरलम्भेण समा ऊनहिया होंति मईवि सेसेर्हि । ते वि य मईविसेसे सुचना मंतरे जाण । १४३ ।" इति । 'अत्थो वक्खाणं विय एगट्ठा ।। ८५६ ॥ इत्युपदेशपदवचनाद् जिह्वातुल्यनिर्युक्यादिव्याख्यानात्म
४९
"Aho Shrutgyanam"