________________
सम्मति• काण्ड ३, गा० ६५ कार्थसापेक्षसूत्रेण निश्चितप्रामाण्यकतात्पर्यार्थप्रतीतिः, न तु सूत्रमात्रेणेत्याह - न सुत्तमेत्तेण अस्थपडिवत्ती' न सूत्रमात्रेणार्थप्रतिपत्तिः, निस्सीमसिद्धान्ताचाधितपरमार्थग्राहिबुद्धिरत्ननिधिसुगुरुपरम्पराविदितस्त्रार्थभावाचार्यकृतव्याख्यानरहितेन सूत्रेणार्थप्रतिपत्तिः पौर्वापर्यावाधितार्थप्रतिपत्तिर्न, अविवृतेन सूत्रेणायथार्थप्रतीतेरपि भावात् । यथाऽवस्थितार्थ. प्रतिपत्तिस्सूत्रमात्रेण दुश्शक्येत्यत्र हेतुगर्भविशेषणमाह 'अत्थगई पुण णयवायगहणलीणा' ये गत्यर्थास्ते ज्ञानार्था इति वचनाद् अर्थगतिः अर्थस्य यथाऽवस्थितस्य गतिः प्रतिपत्तिः पुनर्नयवादगहनलीना, “नथि गएण विहूणं सुत्तं अत्थो य जिणमए किश्चि" इत्युक्तेः शतशतप्रभेदविशिष्टैकैकनैगमाजुसूत्रादिनयभेदविशिष्टद्रव्यार्थिकपर्यायार्थिकनयवादावेव गहनं विपिनम् , तत्र लीना तद्याप्ता तद्विषयविषयिकेति यावत् , अत एव 'दुरभिगम्मा' दुरधिगम्या दुरवयोधेत्यर्थः ॥ ६४ ॥ __ अशेषतत्तभया अतिसूक्ष्मविषमतमार्थविषयकत्वेन कुशाग्रबुद्धिभिरेवाक्सेया इति तत्सटितसूत्रार्थप्रतिपत्तिरपि मन्दमेघसा दुश्शक्येत्यतोऽधीतसूत्रेणार्थसम्पादने विधिनाधिकतरो यत्नः कर्त्तव्यः, यतोऽर्थशुद्धरुभयविशुद्धिस्सूत्रार्थोभय निर्मलतारूपा सम्पद्यते, अन्यथा विपरीतशास्त्रार्थप्रतिपत्तिलक्षणविपर्यासाद्यापत्तेश्शासनमालिन्यकारित्वं स्यादित्याशयेनाह
तम्हा अहिगयसुत्तेण, अत्थसंपायणम्मि जइयव्वं ।
आयरियधीरहत्था, हंदि महाणं विलंबेन्ति ॥ ६५ ।। ' सम्हा अहिगयसुत्तेण' तस्मात् सूत्रादर्थो बलीयानिति हेतोः, अधिगतसूत्रेण अधिगतमधीतमशेष सूत्रं येनासौ अधिगतसूत्रः, तेन, ' अत्थसंपायणम्मि जइयवं' अर्थसम्पादने, अर्थविषयकप्रमाणतत्तन्नयस्वरूपावधारणे, यतितव्यं दृढयत्नपरेण भाव्यम् , दृढी यत्नः कर्तुमुचित इति यावत् । अधीत्य सूत्रं तत्तन्नययुक्तितत्तत्प्रतिस्पर्धि नययुक्ति. संवादः श्रोतव्यः, श्रुत्वा च सर्वनयसंवादविनिश्चयपरिशुद्धयथावस्थितार्थतया सूत्रं भाव. नीयम्, प्रमाणपरस्परसापेक्षतचन्नयापेक्षानेकान्तार्थप्रतिपादकतया सूत्रयथावत्तात्पर्यभावनाऽकरणे शासनविडम्बनाकारित्वदोषप्रतिपादनायोत्तरार्द्धमाह-" आयरिपधीरहत्था " आचार्यधीरहस्ताः, धीरो लज्जाविनयशिक्षाकलादिरहितत्वेन धृष्टताशाली हस्तो येषां ते धीरहस्ताः, आचार्याश्च ते धीरहस्ताश्च आचार्यधीरहस्ताः, यथा केचिदनभ्यस्तकर्माणोऽपि धृष्टतया कर्मणि व्यापृतहस्ताः तथा सद्गुरूपासनादिभिरशिक्षिततत्तनयगर्भशास्त्रार्था अपि शास्त्रार्थविवेचने धृष्टतया व्यापृताः, एवम्भूताऽऽचार्याः किं कुर्वन्तीत्याशङ्कायामाह-" इंदि महाणं विलंबेति" महाऽऽज्ञामातशासनं विडम्बयन्तीति ज्ञायताम् , तदेवमनधीताऽश्रुत. यथावदपरिभावितागमतात्पर्या जिनशासनं विगोपयन्तीति सिद्धम् ॥ ६५ ॥
बहुश्रुतत्वादिदर्यात्सूत्रतात्पर्यानवयोधादनिश्चितशास्त्रार्थस्य सिद्धान्तप्रत्यनीकत्वमाह
"Aho Shrutgyanam"