________________
सम्मति काण्ड ३, ० ६६
,
जह जह बहुस्सुओ संमओ अ, सिस्सगणसंपरिवुडो अ । अविणिच्छिओ अ समए, तह तह सिद्धंतपडिणीओ ॥ ६६ ॥ 4 जह जह बहुस्तुओ ' यथा यथा बहुश्रुतः परिपठितवह्नागमः श्रुतपल्लरग्राहितया बहुश्रुतत्वख्यातिमानिति यावत्, 'संमओ अ' सम्मतच सिद्धान्तोपनिषद्विचारचतुरजनाविदितशास्त्राभिप्रायाणां गतानुगतिकप्रवाहपतितानां तदनुवर्तिनां चान्येषां बाह्याडम्बरदर्शनमात्रोदितविस्मयानां मुग्धमतीनां च शास्त्रज्ञत्वेन बहुमतः, 'सिस्मगणसंपरिवुडो अ शिष्यगण संपरिवृतश्च शास्त्रतच्चानभिज्ञैर्विनेयवृन्दैः समन्तात् परिवृतश्च 'अविणिच्छिओ अ ' अविनिश्चितच तथाविधपरिवार दर्पाच्छास्त्र पर्यालोचनेऽनादराद विनिश्चितागमैदम्पर्यथ, यद्वा सम्यगपरिणतश्च प्रवचने ऐदम्पर्याऽज्ञानात् विरत्यप्रहृत्वाच्च, ' तह तह सिद्धतपडिणीओ तथा तथा सिद्धान्तप्रत्यनीकः, यथावदपरिभावितागमतात्पर्य स्सोऽपरिणतदेशनया यथास्थितसिद्धान्तस्य विपर्यासापादनान्मुग्धजनानामश्रद्धोत्पादकत्वेन वस्तुस्थित्या सिद्धान्तविनाशकः, अन्यागमेभ्यस्तलाघवापादनादिति । अभिहितञ्च सिद्धान्ते
,
64
૨૮૭
'सव्वन्नूहि पणीयं, सो उत्तममइसएण गंभीरं । तुच्छकहणार हिट्ठा, सेसाण वि कुणइ सिद्धतं ॥ १ ॥ अविणिच्छिओण सम्मं, उस्सग्गाववायजाणओ होइ । अविसपओगओ सिं, सो सपरविणासओ नियमा ॥ २ ॥ " इति ।
तदर्थश्चायम् - सर्वज्ञैः प्रणीतं सोऽविनिश्चित उत्तमं प्रधानमतिशयेन गंभीरं भावार्थसारं तुच्छकथनया अपरिणतदेशनयाऽधः शेषाणामपि सिद्धान्तानां करोति तथाविधलोकं प्रति सिद्धान्तमिति गाथार्थः । अविनिश्चितः समये न सम्यगुत्सर्गापवादज्ञो भवति सर्वत्रैव, ततश्चाऽविषयप्रयोगतोऽनयोरुत्सर्गापवादयोस्तथाविवस्त्रपरविनाशको नियमात् कूटवैद्यवदिति गाथार्थः ॥ ६६ ॥
तस्माच्छाखमधीत्य तदर्थावधारणं विधेयम्, अवधृतश्च तदर्थो प्रमाणनयाभिप्रायतो यथावत्परिमावनीयः, अन्यथा तत्फलपरिज्ञानविकलताप्रसक्तिस्स्यादित्यत आह
"
यद्वा स्याद्वाद एव प्रवचनसार, एतद्बोधेनैव प्रवचनस्य फलवत्वात्, " एगे आया " इत्यादिनापि तन्त्र परिकर्मितमतीनामात्मा स्यादेकः स्यादनेक इत्यादिसस भङ्गी परिकरितबोधस्यैवोत्पत्तेः, एकनयावधारणे मिध्यादृष्टिवचनाऽविशेषप्रसङ्गात् । अत एव भगवदुपदिष्टया प्रवचनमूलत्रिपद्याप्येकवस्तुनि द्रव्यार्थिक पर्यायार्थिकन यापेक्ष कथञ्चिनित्यत्वानित्यत्वो मयधर्ममाdaareerद्वाद एव प्रोक्त इत्येतस्मिन्नऽविज्ञाते चरणकरणानुष्ठानस्य निश्रयशुद्धस्सरोऽविज्ञातस्स्यात्, स्याद्वादमुद्रा मुद्रित जीवाजी वादिनवतस्त्रविषय कापायज्ञानात्मकरुचिरूपसम्यग्दर्शन शुद्धिशून्यत्वादिति प्रतिपादयितुमाह -
"Aho Shrutgyanam"