________________
३८4
सम्मति• काण्ड ३, गा. १५
चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा।
धरणकरणस्स सारं, निच्छयशुद्धं न याति ॥ ६७ ॥ चरणकरणप्पहाणा' चरणकरणप्रधाना:-चरणं " वयसमणधम्म " इत्यादिगाथो. क्तसप्ततिभेदम्, करणमपि " पिंडविसोही समिई" इत्यादिगाथोक्तसप्ततिमेदम्, ताभ्यां प्रधानाः, तदुभयानुष्ठानसततप्रत्येकलीनाः, 'ससमयपरसमयमुकवावारा' स्वसमयपरसमयमुक्त व्यापारा, स्वसमयपरसमययोर्मुक्तोऽनाहतो व्यापारः स्याद्वादपरिकर्मितधिया विवेचनात्मा यैस्ते तथा, चरणकरणाऽनुष्ठानेनैव कृतार्था वयं किमस्माकं तर्ककर्कशेन वादरसिकरमणीयेन स्याद्वादेन प्रयोजनमित्येवं द्रव्यानुयोगशास्त्राभ्यासायावृता इत्यर्थः, 'चरणकरणस्स सारं' चरणकरणस्य चरणकरणानुष्ठानस्य सारं स्वजन्यफलोत्कर्षाङ्गम, 'निच्छयसुद्धं ' निश्चयशुद्धं परमार्थदृष्ट्याऽवदातम्, न तु बाह्यक्रियावल्लोकदृष्टौवापाततो रमणीयमित्यर्थः, न याणंति' न जानन्ति, न विचारयन्ति, तदावरणदोषात् , एवञ्च तेषामल्पफलमेव चरणकरणानुष्ठानमित्यर्थः ।
यद्वा पूर्वोक्तयोश्चरणकरणयोः प्रधानास्तदनुष्ठानतत्पराः,स्वसमय-परसमयमुक्तव्यापारा अयं स्वसमय: प्रमाणनयाभ्यां यथावस्थितानेकान्तात्मकवस्तुतत्वप्रतिपादकत्वात् , अयश परसमयः प्रमाणान्तरवाधितैकान्ततस्वप्रतिपादकत्वात् , न चात्र प्रमाणान्तरवाधितस्वस्य विशेषणस्याऽसिद्ध्या तद्विशिष्टोक्तहेत्वसिद्धिरिति वाच्यम्, तत्तनयप्रवर्तिततत्तत्समयान्तरतत्त्वेषु नयान्तरप्रतिपाधयुक्तिप्रकरैरनेको बाधितत्वस्य प्रदर्शनादित्येतस्मिन् परिज्ञानेऽना. दृताः, नरसिंहबजात्यन्तररूपमत एव समयान्तरतत्त्वविलक्षणमनेकान्ततत्त्वं यथावदनवबुध्यमानाश्चरणकरणयोः सारं फलं निश्चयशुद्धं निश्चयश्च तच्छुद्धश्च ज्ञानदर्शनोपयोगात्मक निकलकं न जानन्ति नानुभवन्ति, शानदर्शनचारित्रात्मककारणप्रभवत्वात्तस्य, कारणाभावे च कार्यस्याऽसम्भवात् , अन्यथा तस्य निर्हेतुकत्वापत्ते, चरणकरणयोश्च चारित्रात्मकस्वात् , द्रव्यपर्यायात्मकजीवादितत्वावगमखमावरुच्यभावेऽभावात् , अथवा चरणकरणयोस्सारं निश्चयेन शुद्धं सम्यग्दर्शनं ते न जानन्ति, न हि यथावस्थितवस्तुतत्त्वावबोधमन्तरेण तद्रुचिा, न च स्वसमयपरसमयतात्पर्यार्थानवगमे तदवबोधो बोटिकादेरिव सम्मवी | अथ जीवादिद्रव्यार्थपर्यायार्थाऽपरिज्ञानेऽपि यदर्हद्विरुक्तं तदेवैकं सत्यमित्येतावतैव सम्यग्दर्शनसद्भावः " मण्णइ तमेव सचं णिस्संकं जं जिणेहिं पणतं" इत्याद्यागमप्रामाण्यात, न, स्वसमयपरसमयपरमार्थाऽनभिज्ञैर्निरावरणज्ञानदर्शनात्मकजिनस्वरूपाज्ञानवद्भिस्तदमिहितभावानां सामान्यरूपतयाप्यन्यव्यवच्छेदेन सत्यस्वरूपत्वेन झातुमशक्यत्वात् , नन्वेवमागमविरोधः सामायिकमात्रविदो माषतुषादेर्यथोक्तचारित्रिणस्तस्य मुक्तिप्रतिपादनात् सकलशास्त्रार्थनताविकलव्रतस्य व्रताद्याचरणनैरर्थक्यापत्तिश्च, तत्साध्य
"Aho Shrutgyanam"