________________
सम्मति• कान ३, गा.. फलाऽनवासे, न च यथोपदर्शितचरणकरणे सम्यग्दर्शनवैकल्ये सम्मवता, शानादित्रितय. स्यापि तत्र पाठादिति, मैवम् , ये यथोदितचरणकरणप्ररूपणासेवनद्वारेण प्रधानादाचार्यात्स्वसमयपरसमयमुक्तव्यापारा न भवन्तीति ननोऽत्र सम्बन्धात् ते चरणकरणसारं निश्चयशुद्धं जानन्त्येव, गुर्वाज्ञया प्रवृत्तेः, चरणगुणस्थितस्य साधोः सर्वनयविशुद्धतयाऽभ्युपगमात् " तं सबणयविसुद्धं जं चरणगुणढिओ साहू" इत्याद्यागमप्रामाण्यात् । अगीतार्थस्थापि गीतार्थनिश्रितस्य तत्परतन्त्र्यस्यैव फलतो ज्ञानदर्शनलक्षणत्वात् । आह च हरिभद्राचार्य:
" गुरुपारतंतनाणं, सद्दहणं एय संगयं चेव ।
एत्तो उ चरित्तीणं, मासतुसाईण निहिडें ॥ ११-७ ॥ त्ति" गीतार्थाऽनिश्रितागीतार्थस्य स्वतन्त्रचरणकरणप्रवृत्तेर्वताधनुष्ठानवैफल्यं त्वम्युपगम्यत एव । "गीयस्थो य विहारो, बीओ गीयत्थमीसि(निस्सि )ओ भणिओ। इत्तो तहयविहारो, नाणुनाओ जिणवरेहिं ।। १ ।।" इत्याद्यागमप्रामाण्यादिति ।।
यद्वा पूर्वोक्तयोवरणकरणयोः प्रधाना:-तदनुष्ठानार्पितत्रिकरणाा, स्वसमयपरसमयमुक्तव्यापारा:-अयं स्त्रसमयः द्रव्यार्थिकनयापेक्षया स्यानित्यमेव पर्यायार्थिकनयापेक्षया स्यादनित्यमेवेत्यादिसप्तमङ्गीपरिकरितार्थबोधजनकत्वात् , अयश्च परसमयः अन्यनयानपेक्षनयगोचरेकान्ततत्त्वप्रतिपादकत्वात् , इत्येतस्मिन् परिज्ञानेऽनादृताः, तत्तत्रयप्रसुतत. तत्परसमयप्रतिपाद्यैकान्ततत्तत्तत्त्वज्ञाने नयान्तरप्रतिपाद्येन तत्तत्तत्त्वनिराकरणयुक्तिसमूहे. नाप्रामाण्यवाने सत्येव तद्विषयासत्यत्वनिश्चयः, तस्मिश्च सति प्रमाणनयाभ्यां स्वसमयप्रतिपाभिमापेक्षाविरुद्धक्षणिकाऽक्षणिकत्व नित्यानित्यत्वाद्यनन्तधर्माकान्तानेकान्तात्मकार्थयथार्थनिश्चयो भवितुमर्हतीति स्वपरसमयतत्वसत्यासत्यत्वविवेचनानुधमवन्तोऽनेकान्त. तवं यथावदनवबुध्यमानाः चरणकरणयोस्सारं निश्चयेन शुद्धं सम्यग्दर्शनं ते न जानन्ति, यतो भगवता प्रवचनं भव्याङ्गिवातानां स्याद्वादज्ञानार्थमेवोपदिष्टमिति यथार्थवाद्वाद. निधयबोधमन्तरेण स्वपक्षस्सन् परपक्षश्वासन्नित्येवं स्वपक्षपस्पक्षयोर्विधिनिषेधयोः कर्तुमशक्यत्वात् नास्ति स्याद्वादत वरुचिलक्षणसम्यक्त्वम् , जिनप्रज्ञप्तभावविषयकसमूहालम्बनज्ञानविशेषस्यैव रुचितयाऽऽम्नातत्वात् , तादृशवोधश्च वस्तुत्वव्यापकाऽनेकान्तत्वप्रतिसन्धानाहितवासनावतामेव, तादृशवासनाऽपि च स्वपरसमयनिरन्तरषद्धव्यापाराणामेव, न च ते तादृशष्यापारा इति न निश्चयेन शुद्धं सम्यग्दर्शनमनुभवन्ति, “छप्पिय जीवनिकाए, सद्दहमाणो ण सदहा भावा" इत्यादिनाऽत्र प्रागेवोक्तत्वादविविक्तषट्कायपरिशानेऽपि स्याद्वादेन विविक्तषटकायपरिज्ञानं विनौषतस्तद्रागमात्रेण द्रव्यसम्यक्त्वस्येवात्रापि स्वसमयपरसमयविवेचनं विना द्रव्यसम्यक्त्वस्यैव भावात् । नन्वेवं तथाविधाऽमीवार्थस्य संक्षेपरुचिसम्यक्त्वच्छिद्यतेति चेत्, मैवम् , यत आज्ञारुचेः प्रियगीतार्थाऽऽस्प
"Aho Shrutgyanam'