Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति काम. ३, प्रशस्तिः
चर्चा चात्र प्रसङ्गतो बहुविधा सन्दर्शिता सागमाऽनेकान्तप्रविचारणा परमतोत्खातेन पुष्टिङ्गता ॥१५॥ स्याद्वादे सकलार्थगे स्वयमपि स्याद्वादयुक्त ततोऽनेकान्तस्त्वनवस्थया न हि यथा दृष्यो भवेद्वादिभिः । तत्तद्युक्तिप्रदर्शनं ननु तथा नव्योक्तिकान्तं कृतं, श्रीमद्वाचकपुङ्गवोक्तिविमलाऽऽलोकोऽत्र सन्दर्शितः ॥ १६ ॥ यत्कर्माष्टकमाईते तनुतयाऽनाद्यात्मसंयोगि तत् , मान्यं पौद्गलिकं भवभ्रमणकृत् संछादनादावृतिः । तत्संपूर्णलये निरावृतिरसौ जीवोऽमलज्ञानवान् , मुक्तस्सिद्धिशिलातले विजयते वानन्दपूणों विभुः ।। १७ ॥ मुक्तेर्मार्ग उदीरितो जिनवरै रत्नत्रयं त्वात्मनो, ज्ञानं दर्शनमस्खलद्गति तथा चारित्रमेतत्रिकम् । एकैकं न च तत्समर्थमभितो मुक्तौ न चैवावृतम् , सम्यक तत्रितयं सुनितिकते वाञ्छन्ति तद्योगिनः ॥ १८ ॥ तत्राशेषविशेषगोचरचरं ज्ञानं मतं केवलं, सामान्यं त्वखिलं प्रकाशयति यत् तत्केवलं दर्शनम् । एकस्मिन्समये तयोस्तु भवनं श्रीमल्लवादी जगौ, मिने श्रीजिनमद्र आप्तप्रवरस्सैद्धान्तिकस्तरक्षणे ॥१९॥ नव्योक्तिप्रविताननैकनिपुणः श्रीसिद्धसेनो जगौ, मेदो नैव तयोरस्वतो न च तदाऽऽवृत्योभिंदा कर्मणोः। स्यात्सामान्यविशेषगोचरकता मेदप्रथौपाधिकी, तसात्केवलमेकमेव मितितो ज्ञानश्च तदर्शनम् ॥ २० ॥ इत्येवं मिथ एव युक्तिवलतो राद्धान्तकान्तं त्रिक, तत्समीत्यवलम्बनेन प्रथितं नेदं विरोधास्पदम् । नाज्ञानादुपढौकितं न च निजोत्प्रेक्षकसारं यथा, श्रीमद्वाचकपुङ्गवेन यशसा तद्भावितं तत्तथा ।। २१ ॥ एकं मिनमथाप्यपर्यवसितं सादीति यत्केवलं, तत्सापेक्षमुदीरितं तु सकलं नो वै विरोषस्ततः । स्यात्सामान्यविशेषरूपमननं जीवे चिदेकात्मके, माला चात्र निदर्शनं सुगमितं भिन्नैकनामोद्भवे ॥२२॥
"Aho Shrutgyanam"

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556