Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 446
________________ २९८ सम्मति• काल , गा० ५ तदेवमत्राप्यर्हच्छास्त्रपरिकर्मितमतेर्जीवनिकायधर्मिणि स्यादेकत्वानेकत्वषड्विधत्वाषद्विधवादिना सप्तभङ्गीपथेन स्यादेकत्वस्यादनेकत्वस्यात्लड्विधत्त्वस्यादपविधत्वादिसप्तधर्मप्रकारकाखण्डबोधस्यैवोत्पत्तेन व्यापकोऽनेकान्त इति ध्येयम् ॥ २८ ॥ ननु वस्तुत्वस्यानेकान्तत्वव्याप्यत्वेन तदतत्स्वभावात्मकं वस्तुमात्रमित्यभ्युपगमे गच्छति तिष्ठतीत्यत्रापि तथास्वभावापत्या गमनक्रियावद्रव्ये गच्छति स्थितिक्रियावद्रव्ये च तिष्ठतीति नियतव्यवहारो विलुप्त एव स्यादित्याशङ्कासुद्धर्तुमाह गहपरिणयं गई चेव, केह णियमेण दवियमिच्छंति । तं पि य उड्डगई, तहा गई अण्णहा अगई ॥ २९ ॥ " गइपरिणयं दवियं णियमेण गई चेव केइ इच्छति" गतिपरिणतं गतिक्रियापरिणतं द्रव्यं नियमेन गतिमदेव, एवकारेण नागतिमदित्युक्तं भवति, इत्येवं केचिदिच्छन्ति मन्यन्ते तनिषेधार्थमुत्तरार्द्धमाह-तं पि येत्यादि । तदपि च गतिक्रियापरिणतं जीवद्रव्य सर्वतोगमनाऽयोगादूर्वादिप्रतिनियतदिग्गतिकमिति तैर्वादिमिरम्पुपगमे कृते सत्येवोवं गच्छत्तीति विवक्षितप्रतिनियतदिगवच्छिन्नगतिव्यवहार उपपन्नो भवति, नान्यथा, यतस्सा. मान्यतो गच्छतीत्युक्तौ कस्यां दिशीति जिज्ञासा समुल्लसत्येव, सा च विवक्षितदिगुक्त्यैव शान्ता भवतीति, तथा च विवक्षितप्रतिनियतदिगपेक्षया गतिमत् , दिगन्तरापेक्षया चागतिमदेवेति सिद्धं भवति । अयम्भावः-यथा पर्वते शिखरे वह्निः, न तु नितम्बे इति प्रतीतिबलाच्छिखरावच्छेदेन पर्वतो वह्निमान् , न तु नितम्बदेशावच्छेदेनेति तथेदं द्रव्यमूर्ध्वदिशि गच्छति न तु दिगन्तर इति प्रतीतिभावाद् गतिक्रियापरिणतं द्रव्यमूर्धादिप्रतिनियतदिगवच्छेदेन गतिमत्, न तु दिगन्तरावच्छेदेनेति तत्तदन्यदिगवच्छेदेनोभयस्वभावं तदम्युपगन्तव्यम् , अन्यथाऽभिमतदिगवच्छेदेनेवानभिप्रेतदिगवच्छेदेनापि गतिमत् स्यात् , तथा चैककालावच्छेदेनानुपलभ्यमानविरुद्धोमयदेशप्राप्तिस्स्यात् , न च सानुभवसिद्धेत्यनुभवबाधा, न चैकदैकस्मिन्नेव पर्वते भिन्नदेशावच्छेदेन स्थितवहितदभावाविव एवमिदानीं तन्तौ न घट इति प्रतीतेपटवत्यपि काले तन्त्ववच्छेदेन घटाभावस्य घटविनाशकाले इह कपाले न घट इति प्रतीतेर्घटवत्यपि कपाले घटनाशकालावच्छेदेन घटाभावस्य च नैयायिकैरभ्युपगमेन भिन्न देशकालावच्छेदेनकाधिकरणावस्थितषटघटाभावाविव भिमभिन्नादिगवच्छिन्नगवितद ऽभावी विरुद्धौ, येनैकस्मिन् द्रव्ये एककाले तौ न स्याताम्-तथा च कारणसमाजेन विवक्षितप्रतिनियतदिगवच्छिन्नगतिपरिणामस्वभाववति द्रव्ये तदानीमेव तदन्यदिगवच्छिमाऽगति. परिणामस्वभावोऽप्युत्पद्यत इति नात्राप्यव्यापकोऽनेकान्तः । अथाभीष्टदेशगतिरेवानभि. मतदेशागतिरिति विध्येकस्वरूपत्वान्नानानेकान्तोऽवकाशं भजत इति चेत्, तर्हि यद् यस्य विरोधि तत् तदभावसच्च एव स्वस्वरूपं बिभर्तीति विरोधिन्या अनभिमतदेशगतेरभावा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556