Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 504
________________ प्रम्मति काण्ड ३, गा० ५४ ५६ सिद्धम्, किं स्वमनीषिकया तदुच्यते ? आहोस्विदस्त्यस्य किञ्चिदुपनिबन्धनमार्षमपीति १ अस्तीत्युच्यते उपनिबन्धनमस्य - ' पु िभंते ! कुक्कुडी पच्छा अंडए, पुर्वि अंडए पच्छा कुक्कुडी ' इत्यादि प्रश्नव्याकरणम् ' रोहा पुर्वि एते पच्छावि एते, दोषि एते सासया भावा toryवी एसा रोहा इत्यादि । (भग० श० १, उ०६, सू० ५३) एवमग्रेऽपि ज्ञेयम् । एवं पुरुषतनुवन्नियताकारतत्तनूत्पत्तिष्वृद्विक्षत भग्नसंरोहणस्वापविबोधाङ्करोद्भेदपल्लव कुसुमोद्गमभावानां कर्तुतयाऽपि वनस्पत्यादावात्मसिद्ध्या नोक्तव्यभिचारः, निष्टङ्कयति तत्प्रामाण्यमाचाराङ्ग प्रथमाध्ययनपञ्चमोद्देशकं वचनम् -' से बेमि इमं पि जाइ धम्मयं, एयं पि जाइ धम्मयं, इमं पि बुडिधम्मयं एयं पिबुडिधम्मयं, इमं पिचित्तमंतयं एयं पि चित्तमंतयं, इमं पि छिष्णं मिलाइ एयं पि छिण्णं मिलाइ, इमं पि आहारगं एयं पि आहारगं, इमं पि अणिश्चयं एयं पि अणिचयं, इमं पि असासयं एयं पि असासयं, इमं पि चओवचइयं एयं पि चओवचइये, इमं पि विपरिणाममयं एयं पि विपरिणामधम्मयं ' ॥ ४७ ॥ इति । न च वैस्र सिकेऽन्द्रधनुरादौ व्यभिचार इति वाच्यम्, यद्यत्प्रायोगिकं प्रतिनियताकारमित्येव हेत्वर्थत्वात्, यद्वा वैत्रसिकमिन्नत्वे सतीति हेतौ विशेषणात् । न च शरीरमपि वैत्र सिक मेवेत्युक्तानुमानानोतसाध्यसिद्धिस्तत्रेति वाच्यम्, तथा सति तस्मिन् विलक्षणचेष्टावत्त्वोपपत्तिरेव न स्यान्मृतशरीरवदिति । तथा इन्द्रियाणि विद्यमानाधिष्ठातृकाणि करणत्वात्, यद्यदिह करणं तत्तद्विद्यमानाधिष्ठातृकं दृष्टम्, यथा दण्डवास्यादिकम् अधिष्ठातारमन्तरेण करणत्वानुपपत्ति, यथाकाशस्य, हृषीणां करणभूतानामधिष्ठाता स एवात्मा, स च तेभ्योऽन्यः, तथा इन्द्रियविषयक - दम्बकं विद्यमानादातृकं आदानादेयसद्भावात्, इह यत्र यत्रादानादेयसद्भावस्तत्र तत्र विद्यमान आदाता ग्राहको दृष्टः, यथा संदेशका यः पिण्ड योस्तद्भिन्नोऽयस्कारः, यश्चात्रेन्द्रियैः करणैर्विषयाणामादावा- ग्राहकः स तद्भिन्न आत्मेति, यथा च तिले तैलें कुसुमे सौरभं ततः पृथक् तथा शरीरादात्माऽपि पृथक्, न च तिलेन्धनादिभ्यस्तै लाम्यादयः कार्यात्मकाः पृथग्भूतास्साक्षाद्दृश्यन्ते इति तिरोभूततया ते तत्र सन्तीति कार्यलिङ्गतोऽनुमीयन्ते, न चात्मा शरीरात्पृथग्भूत उपलभ्यत इति स तत्र नास्त्येवेति वाच्यम्, अरूपित्वादेव स बाझेन्द्रियैर्नोपलभ्यते न स्वभावतः, कालादिवत्, अहं जाने, अहं यते, अहं सुखी, अहं दुःखी, इत्यादिमानसप्रत्यक्षेण तूपलभ्यत एव न चाहम्पदवाच्यं शरीरमेवेति वाच्यम्, अन्धकारेऽपि सोऽहं सोऽहं मुख्यहं दुःख्यहमित्यादिप्रतीतेः, यच्च ' विज्ञानघन एवैतेभ्यो भूतेभ्य' इत्याद्युक्तं तेनाप्यात्मसत्ता प्रतीयत एव, तथाहि - ' विज्ञानघनो' प्रतिप्रदेशमात्मनोऽनन्तज्ञानपर्याय मयत्वाद्विज्ञान पिण्ड आत्मा 'एतेभ्यो भूतेभ्यस्समुत्थायेति' प्राक्तनकर्मवशात्तथाविधकायाकारात्मपरिणामं प्रति कायाकारपरिणत भूतानामपि कारणत्वात्तेभ्यः कायाकारात्मपर्यायतया समुत्पद्य कायद्वारा स्वकर्मफलमनुभूय पुनः कार्याविनाशे आत्माऽपि तदानीं तेनाकारेण विनश्यापरकायाकारात्मपर्यायान्तरेणोत्पद्यते, न पुनस्तैर्भूतैरेव सह विनश्यतीति परलोके प्राक्तनी संज्ञा " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556