Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 508
________________ २१० सम्मति० काट ३, गा० ५४ भूयो भूय उत्पादशीला न तत्तदेकप्रयत्नेनैव निर्मलयितुं योग्याः, यतो निष्पन्नपञ्चसप्तादि. हस्तमानलङ्घनोऽपि भूयो व्यायामाऽनासेवने नोत्तरकालन्तल्लङ्घयति, तत्कस्य हेतोः, उद्भूतोऽपि तदतिशय: पुन: xलेष्मोपचयादभिभूत एव सम्पद्यते, अत एव युवावस्थायामनवरत. व्यायामलब्धविंशत्यादिहस्तमानव्यापिलङ्घनातिशयो यावल्लङ्घयति न ताववृद्धावस्थायामित्युपलभ्यमानमुपपनतरम्, तत एव च द्विहस्तादिपरिच्छिन्नलङ्घनप्रयत्न एकहस्तादिमितलखनोपष्टम्भकारी, न ह्येकं हस्तमलङ्घयित्वैव द्विहस्तं लङ्घयति कश्चित् , द्विहस्तादिकमलचयि. त्वा त्रिहस्तादिकमिति द्विहस्तादिलङ्घनातिशये एकहस्तादिलङ्घनस्यान्तर्भावात् तत्प्रयत्नस्तदुपष्टम्मक इति न्यायप्राप्त एवेति लनातिशये व्यवस्थितप्रकर्षत्वं युज्यते । एतेन ताप्यमानोदकस्य व्यवस्थितप्रकर्षतादृष्टान्तेन ज्ञानस्य व्यवस्थितप्रकर्षताऽपि निरस्ता, काथ्यमानस्योदकस्य प्रतिक्षणमपचयतोऽत्यन्ततापप्रकर्षे नाशस्यैवावाप्या तदाश्रिततापप्रकस्य व्यवस्थित. त्वस्यैव न्याय्यत्वात् , दार्शन्तिके तु लङ्घनादिवज्ज्ञानस्य प्राप्य कारित्वेनार्थक्रियाकारित्वाभावेन यद्यद्विषयावच्छेदेन स्वप्रतिबन्धकावरणापगमस्तत्तद्विषयप्रकाशकत्वं, तपोऽध्ययना. दीनां च प्रतिबन्धकापगम एवं व्यापारः, न त्वपूर्वज्ञानोत्पादने, जीवसहमाविनो ज्ञानस्या. पूर्वत्वाभावात् , सर्वथा प्रतिबन्धकापगमे च यावद्वस्तुपरिच्छेदिज्ञानमाविर्भवत्येव, न च ज्ञानस्य प्रतिनियतज्ञेयपरिच्छेदकत्वमेव स्वभावो न तु यावद्वस्तुपरिच्छेदकत्वमित्यत्र मानं, स्वपरिच्छेद्यत्वेनाभिमतादन्यस्यापरिच्छेदकत्वे च नावरणं प्रतिवन्धकम् , तस्यापि तद्विषय एव व्यवस्थितरूपत्वात् , नायोग्यत्वं, परिच्छेद्यत्तयोग्यतावच्छेदकत्वस्य लाघवेन वस्तुत्व एव कल्पनीयत्वात् , तत्तज्ज्ञानपरिच्छेयत्वयोग्यतावच्छेदकप्रतिनियततत्तद्विषयमात्रगतानेकानुगतधर्माणां कल्पने महागौरवात् । न च लखनप्रयत्नाभ्यासवदुत्तरोत्तरज्ञानजनकाभ्या. सादेः पूर्वपूर्वज्ञानव्यवस्थितौ व्यापारः । तत्र हि उत्तरोचरलङ्घनस्य पूर्वपूर्वलङ्घननियतत्वम् , न चैवं प्रकृते, व्याकरणादिशास्त्रज्ञानस्य न्यायादिशास्त्रज्ञानतो मिन्नविषयत्वेन नियत. स्वाभावात् , अत एव श्रुतविस्मरणादिशीलस्य पुंसो व्याकरणादिशास्त्रमधीत्य न्यायादिशा. स्त्रमध्येतुरुत्तराध्ययनकाले पूर्वस्य विस्मरणमपि सङ्गच्छते, अन्यथा द्विहस्तादिलचनाम्यासे एकहस्तादिलङ्घनानुवृत्तिवदृढतयाऽनुवृत्तिरेव स्यात्, न तु विस्मरणं, पूर्वजन्माभ्यस्तलखनातिशयः शरीरनिष्ठत्वान्न यथा जन्मान्तरमनुव्रजति न तथा ज्ञानातिशया, तथा सति एकत्र शास्त्रेऽलभमानप्रवेशो बटुः पित्रादिभिश्शास्त्रान्तरे समासाद्यमानपटुतातिशया कथं सङ्गच्छेत, तस्मिन् जन्मन्युभयोरपि शास्त्रयोस्तं प्रत्यविशेषात् । तस्माद् यद्धि शास्त्र येन पूर्वजन्मन्यधीतं तस्य तद्विषयकस्संस्कारोऽनुवर्तत इत्युत्तरजन्मनि तत्र झटिति प्रवेशो नान्यत्रेत्यनेकजन्माभ्यस्तभिन्नभिन्नशास्त्रार्थविषयकसंस्कारेभ्यस्समुद्बुद्धेभ्योऽपि प्रभूतातिप्रभूतविषयकज्ञानानामुत्पत्तिस्सम्भवतीति न तस्य व्यवस्थितोत्कर्षता युक्तिमती । तथा ज्ञानस्य जीवस्वभावत्वेन न प्रकर्षगमनेऽप्याश्रयनाश इति न ताप्यमानोदकेन समानौ "Aho Shrutgyanam'

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556