________________
२१०
सम्मति० काट ३, गा० ५४ भूयो भूय उत्पादशीला न तत्तदेकप्रयत्नेनैव निर्मलयितुं योग्याः, यतो निष्पन्नपञ्चसप्तादि. हस्तमानलङ्घनोऽपि भूयो व्यायामाऽनासेवने नोत्तरकालन्तल्लङ्घयति, तत्कस्य हेतोः, उद्भूतोऽपि तदतिशय: पुन: xलेष्मोपचयादभिभूत एव सम्पद्यते, अत एव युवावस्थायामनवरत. व्यायामलब्धविंशत्यादिहस्तमानव्यापिलङ्घनातिशयो यावल्लङ्घयति न ताववृद्धावस्थायामित्युपलभ्यमानमुपपनतरम्, तत एव च द्विहस्तादिपरिच्छिन्नलङ्घनप्रयत्न एकहस्तादिमितलखनोपष्टम्भकारी, न ह्येकं हस्तमलङ्घयित्वैव द्विहस्तं लङ्घयति कश्चित् , द्विहस्तादिकमलचयि. त्वा त्रिहस्तादिकमिति द्विहस्तादिलङ्घनातिशये एकहस्तादिलङ्घनस्यान्तर्भावात् तत्प्रयत्नस्तदुपष्टम्मक इति न्यायप्राप्त एवेति लनातिशये व्यवस्थितप्रकर्षत्वं युज्यते । एतेन ताप्यमानोदकस्य व्यवस्थितप्रकर्षतादृष्टान्तेन ज्ञानस्य व्यवस्थितप्रकर्षताऽपि निरस्ता, काथ्यमानस्योदकस्य प्रतिक्षणमपचयतोऽत्यन्ततापप्रकर्षे नाशस्यैवावाप्या तदाश्रिततापप्रकस्य व्यवस्थित. त्वस्यैव न्याय्यत्वात् , दार्शन्तिके तु लङ्घनादिवज्ज्ञानस्य प्राप्य कारित्वेनार्थक्रियाकारित्वाभावेन यद्यद्विषयावच्छेदेन स्वप्रतिबन्धकावरणापगमस्तत्तद्विषयप्रकाशकत्वं, तपोऽध्ययना. दीनां च प्रतिबन्धकापगम एवं व्यापारः, न त्वपूर्वज्ञानोत्पादने, जीवसहमाविनो ज्ञानस्या. पूर्वत्वाभावात् , सर्वथा प्रतिबन्धकापगमे च यावद्वस्तुपरिच्छेदिज्ञानमाविर्भवत्येव, न च ज्ञानस्य प्रतिनियतज्ञेयपरिच्छेदकत्वमेव स्वभावो न तु यावद्वस्तुपरिच्छेदकत्वमित्यत्र मानं, स्वपरिच्छेद्यत्वेनाभिमतादन्यस्यापरिच्छेदकत्वे च नावरणं प्रतिवन्धकम् , तस्यापि तद्विषय एव व्यवस्थितरूपत्वात् , नायोग्यत्वं, परिच्छेद्यत्तयोग्यतावच्छेदकत्वस्य लाघवेन वस्तुत्व एव कल्पनीयत्वात् , तत्तज्ज्ञानपरिच्छेयत्वयोग्यतावच्छेदकप्रतिनियततत्तद्विषयमात्रगतानेकानुगतधर्माणां कल्पने महागौरवात् । न च लखनप्रयत्नाभ्यासवदुत्तरोत्तरज्ञानजनकाभ्या. सादेः पूर्वपूर्वज्ञानव्यवस्थितौ व्यापारः । तत्र हि उत्तरोचरलङ्घनस्य पूर्वपूर्वलङ्घननियतत्वम् , न चैवं प्रकृते, व्याकरणादिशास्त्रज्ञानस्य न्यायादिशास्त्रज्ञानतो मिन्नविषयत्वेन नियत. स्वाभावात् , अत एव श्रुतविस्मरणादिशीलस्य पुंसो व्याकरणादिशास्त्रमधीत्य न्यायादिशा. स्त्रमध्येतुरुत्तराध्ययनकाले पूर्वस्य विस्मरणमपि सङ्गच्छते, अन्यथा द्विहस्तादिलचनाम्यासे एकहस्तादिलङ्घनानुवृत्तिवदृढतयाऽनुवृत्तिरेव स्यात्, न तु विस्मरणं, पूर्वजन्माभ्यस्तलखनातिशयः शरीरनिष्ठत्वान्न यथा जन्मान्तरमनुव्रजति न तथा ज्ञानातिशया, तथा सति एकत्र शास्त्रेऽलभमानप्रवेशो बटुः पित्रादिभिश्शास्त्रान्तरे समासाद्यमानपटुतातिशया कथं सङ्गच्छेत, तस्मिन् जन्मन्युभयोरपि शास्त्रयोस्तं प्रत्यविशेषात् । तस्माद् यद्धि शास्त्र येन पूर्वजन्मन्यधीतं तस्य तद्विषयकस्संस्कारोऽनुवर्तत इत्युत्तरजन्मनि तत्र झटिति प्रवेशो नान्यत्रेत्यनेकजन्माभ्यस्तभिन्नभिन्नशास्त्रार्थविषयकसंस्कारेभ्यस्समुद्बुद्धेभ्योऽपि प्रभूतातिप्रभूतविषयकज्ञानानामुत्पत्तिस्सम्भवतीति न तस्य व्यवस्थितोत्कर्षता युक्तिमती । तथा ज्ञानस्य जीवस्वभावत्वेन न प्रकर्षगमनेऽप्याश्रयनाश इति न ताप्यमानोदकेन समानौ
"Aho Shrutgyanam'