________________
सम्मति. काण्ड ३, गा० ५४ योगक्षेमाविति । सर्वे पदार्थाः कस्यचित्प्रत्यक्षस्य विषयाः प्रमेयत्वात् घटादिवदित्यनुमान च तत्र प्रमाणम् । अथात्र सकलपदार्थसाक्षात्कार्येकज्ञानविषयत्वं साध्यते ? किं वा प्रतिनियतप्रतिमासकभिन्नभिभप्रत्यक्षविषयत्वम् ?, तत्र नायः, घटादिषु प्रमेयत्वहेतोनियतावगायनेक प्रत्यक्षविषयत्वव्याप्ततयैवोपलभ्यमानत्वेन हेतोर्विरोधाघ्रातत्वात् , साध्यविकलत्वाच दृष्टा. न्तस्य । नापि द्वितीया, अर्थान्तरत्वावाः। एवमशेषज्ञेयावलम्बिप्रमाणविषयत्वमुत तत्तद्विषयकप्रमितिविषयत्वं किं वान्यल्लक्षणं प्रमेयत्वं हेतुत्वेनोपन्यस्यते १-तत्राबस्तु विवाद. गोचरीभूतेषु प्रत्येकरूपेण तस्याऽसम्भवेन भागासिद्धिप्रसङ्गतोऽसम्भवी, सम्भवे वा तत एव साध्यसिद्धेस्नर्थकमनुमानोपन्यसनम् , दृष्टान्ते च तथाभूतप्रमाणप्रमेयत्वस्याद्याप्यसिद्धे. रसिद्धान्वयश्च हेतुः। द्वितीयपक्षोऽप्यसङ्गत एव, पक्षान्तर्गतेष्वतीन्द्रियेषु तस्थासम्भवेन मामासिद्धत्वात् , अन्त्योऽप्यसिद्ध एव, तादृशस्य प्रामाणिकैरनभ्युपगमादिति न च प्रेर्यम् , सकलानुमानस्यैवमेवोच्छेदप्रसङ्गात् , तथा हि, पर्वतो वलिमानित्यत्रापि कशानुः प्रतिनियता किं वा पक्षदृष्टान्तोमयवृत्तित्वविशिष्टस्साध्यते, तत्राये यदि महानसर्मिकस्तदा तव्याप्य धूमः पक्षेऽभावात्स्वरूपासिद्धः, पर्वतधार्मिकस्तदा धूमस्तस्थाप्यतयाऽगृहीतत्वाद् व्याप्य. स्वासिद्धः । न द्वितीयोऽपि, कस्यापि बढेरुक्तोमयवृत्तित्वाभावात् । एवं धूमहेतावप्येवमेव कक्षाद्वयी, तत्रायस्साध्यधर्मिधर्मो दृष्टान्तेऽनन्वयी, दृष्टान्तधर्मिकश्च स्वरूपासिद्ध इत्यसम्भवी। द्वितीयोऽप्यसिद्धः, कस्यापि धूमस्योभयवृत्तित्वासम्मवात् । अथ नैवं सविशेषणी साध्य हेतू क्रियेते, किन्तु निर्विशेषणौ सामान्यरूपावेवेति चेत् , तर्हि प्रकृतेऽपि कथं नैवं विचारपद्धतिशरणं क्रियते । न च वाच्यं धूमत्वावच्छिन्नस्य वह्नित्वावच्छिन्नजन्यत्वेन तयोः कार्य कारणभावतः कार्येण कारणानुमानं प्रमाणभावमवलम्बते, अत्र तु कार्यलिङ्गस्यैवाभावतो नोक्तसिद्धिरिति, ग्रहोपरागमन्त्रौषधिशक्त्यादितथाविधफलप्रसाधकातीन्द्रियगोचरवचनविशेषः तत्साक्षात्कारिज्ञानपूर्वकस्तद्विषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वकवचन विशेषत्वाद् अस्मदादिप्रवर्तितथाभूतवचनविशेषवदित्येवं तथाभूतवचनविशेषात्मककार्यलिङ्ग. स्यापि तत्प्रसाधकस्य सद्भावात, इदश्च प्रागेर विवेचितमिति नेह विविच्यते, तदेवं सिद्धः सर्वक्षः, सिद्धे च तस्मिन् परमशुक्लध्यानेनावशिष्टभवोपग्राहिकर्मणि निश्शेषतः क्षीणे तस्य मुक्त्यवाप्तिरित्यस्त्येव निर्वाणमिति सिद्धम् ' अग्निहोत्रं जरामयं वा कुर्यात् ' इति श्रुतावपि विकल्पार्थक 'वा' शब्देन मोक्षार्थिनां मोक्षसाधकक्रियाकालोऽपि प्रदर्शित एवेति । अधिकच प्रथमगाथाविवृतावेवोक्तमिति नेह विस्तार्यते ।५। एतेन 'नस्थि य मोत्थोवाओ' सर्वभावानां नियतत्वेनाकस्मादेव भावात् , स्वभावाद्वा भावादित्यनुपायवादिमतात्मकं षष्ठं मिथ्यात्वस्थानमपि निरस्तम् , अकस्माद्भवतीत्यत्र यदा किं शब्दो हेतुपरस्तदा तस्य नाऽभि. सम्बन्धाद्धत्वभावे सति भवतीत्यर्थो लभ्यते, यदा तु भवनक्रियाया ना सम्बन्धस्तदा
"Aho Shrutgyanam"