________________
सम्मति० काण्ड ३, गा० ५५
प्रसज्यप्रतिषेधे भवननिषेधोऽर्थो लभ्यते, किंशब्दसमस्यमानेनापि नञा सह भवतीत्यस्यान्च यात् । तथा चाकस्माद्भवतीत्यस्य हेतोर्न भवतीति फलितार्थः । यद्वा अकस्माद्भवतीत्यस्य स्वस्माद्भवति यद्वाऽनुपाख्याद्भवतीत्यर्थः, अथवा अकस्मादिति स्वभावादित्यर्थे रूढतया स्वभावादेव कादाचित्कत्वमिति पञ्चविकल्पाः, तत्र नाद्यः पक्षो युक्तः, हेतुनिषेधे भवनस्यानपेक्षत्वेन कालत्रयावच्छिन्नस्य सत्वस्यासत्वस्य वा प्रसङ्गात् । यदुक्तं --
३६२
" नित्यं सत्त्वमसत्वं वा, हेतोरन्यापेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥ १ ॥ " इति ।
न द्वितीयोऽपि पक्षस्सङ्गतः भवन प्रतिषेधे प्राक्पश्चादिव मध्येऽप्यभवनप्रसङ्गात्, न तृतीयोऽपि यतस्स्वोत्पत्तेः पूर्वं यदि स्वं स्यात्तदा नियतकालीन कार्योत्पत्तौ हेतुस्स्यात्, न चैवम्, स्वोत्पत्तेः पूर्वं स्वस्यैवाभावेन हेतुत्वं न सम्भवतीति भावः । न चतुर्थोऽपि, अनुपाख्यस्य कार्यकारित्वाभावात्, तथाऽपि कार्यजनकत्वाऽभ्युपगमे प्रागप्यनुपाख्यस्यानुपाख्यतया भावात्ततः कार्यस्य सत्वप्रसक्तौ सदातनत्वं स्यात् । नापि पञ्चमः, स्वभाव इत्यस्य कोऽर्थः । किं स्वस्य भावः स्वभावः, किं वा स्वमेव भावः स्वभावः, तत्र नाद्यः, स्वस्य भावः स्वधर्मः तथा च स्वधर्मात्स्विस्योत्पत्तिः प्रतिज्ञाता स्यात्, सा च न युक्ता, स्वधर्मेण स्वस्यानुत्पत्तेः स्त्रपूर्वं स्वधर्मस्यैवाभावात्, आश्रयाभावे आश्रितानुपपत्तेः न च द्वितीयोऽपि, पौर्वापर्यनियतस्य कार्यकारणभावस्यैकस्मिन् स्वात्मक वस्तुन्यसम्भवात् नहि स्वमेव स्वस्मात्पूर्वमुत्तरं च भवितुमर्हतीति, तदेवं पञ्चविकल्पमध्ये एकोऽपि विकल्पो न युक्तः, नियतावधिकार्यदर्शनात् अनियतावधित्वे निरखधित्वे वा कादाचित्कत्वस्वभावव्याकोपापातात्, तत्स्वाभाव्ये च सहेतुकत्वस्यावश्यकत्वात्, तदुक्तं कुसुमाञ्जलावुदयनाचार्येण —
↑
44
हेतुभूतिनिषेधो न, स्वानुपाख्यविधिर्न च । स्वभाववर्णना नैव-मवधेर्नियतत्वतः ॥ ॥ " इति ।
तदेवमेकान्त नियतिवादस्यैकान्तस्वभाववादस्य चाडप्रामाण्ये सिद्धे तदितरस्सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षोपायोऽस्तीति सिद्धम् | ६| तस्माद्व्यवस्थितमेतदेकान्तरूपतया षडप्येतानि मिथ्यात्वस्य स्थानानीति ॥ ५४ ॥
नैतान्येव मिथ्यात्वस्थानानि किन्तूक्तविपरीतान्यप्येकान्तवादे तथैवेत्याह
अत्थि अविणासधम्मो, करेइ वेएइ अस्थि निव्वाणं । अस्थि य मोक्खोवाओ, छम्मिच्छत्तस्स ठाणाई ॥ ५५ ॥ 'अस्थि' अस्त्यात्मेत्येकं स्थानम् 'अविणासधम्मो ' अविनाशधर्म इति द्वितीयस्थानम्,
"Aho Shrutgyanam"