________________
सम्मति काण्ड ३, गा०५६
३६.३
' अविणासघम्मी' इत्यपि मुद्रितसम्मतिग्रन्थे पाठः, अविनाशधर्मी, उभयत्र नित्व इत्यर्थः ' करेह ' करोतीति तृतीयं ' वेएइ ' वेदयत इति चतुर्थम्, अनयोः क्रमेणात्मा कर्त्ता भोक्ता चास्तीत्यर्थः, ' अस्थि निवाणं ' अस्ति निर्वाणमिति पञ्चमम्, 'अस्थिय मोक्खोवाओ ' अस्ति च मोक्षोपाय इति षष्ठम् ' छम्मिच्छत्तस्स ठाणाई ' एतानि षड् मिथ्यात्वस्य तस्वार्थाsश्रदानलक्षणस्य स्थानानि । तत्र 'अस्थि' अस्त्यात्मेति पक्षः चार्वा कमिमात्मवादिनाम्, 'अविणासघम्मी' अविनाशधर्मीति पक्षश्च नैयायिकसायमीमांसाकादीनामात्मनित्यत्ववादिनाम् । ' करेइ' करोतीति मतमात्मनिष्ठकर्मादिकर्त्तृत्ववादिनां नैयायिकमीमांसकादीनाम् ' वेएह ' वेदयते आत्मा स्वकृतकर्मफलं सुखदुःखमनुभवतीत्यस्युपगमस्तेषामेव । ' अस्थि निवाणं' अस्ति निर्वाणमिति ' अस्थि य मोक्लोवाओ ' अस्ति च मोक्षोपाय इति च पक्षद्वयं नास्तिकमीमांसकव्यतिरिक्तानां ' छम्मिच्छतस्त ठाणाई' एतानि षट् आत्मत्वस्वस्वरूपेणात्माऽस्ति, अनात्मत्वात्मकपररूपेण नास्ति, स्वद्रव्यक्षेत्र कालभावापेक्षया कर्मकर्त्ता तत्फलभोक्ता च परद्रव्यक्षेत्राद्यपेक्षया चाकर्त्ता अमोक्ता चेत्यादिस्याद्वादमुद्रा मुद्रणरहितानि मिथ्यात्वाधारतां भजन्ते । एतद्विवेचनमनेकधा पूर्वमुक्तमिति नोच्यते, चतुर्थपादं तु गाथायाः केचिद् अन्यथा पठन्ति 'छस्सम्मतस्त ठाणाई ' इति, अस्य च पूर्वोक्तस्याद्वादमर्यादयेतरधर्माऽजहद्वृच्या प्रवर्त्तमाना एते पद पक्षाः सम्यक्त्वस्याधारतां प्रतिपद्यन्ते इत्यर्थः उक्तार्थसंवादिनयोपदेशग्रन्थोक्तस्य " षडेतद्विपरीतानि, सम्यक्त्व स्थानकान्यपि " इति श्लोकार्द्धस्य वृत्तिचैनम् एतेभ्यः प्रागुक्तेभ्यो विपरीतानि षट् सम्यक्स्थानान्यपि भवन्ति, अस्त्यात्मा, नित्यः, कर्चा, साक्षाद्धोक्ता, अस्ति मुक्तिः, अस्ति च तत्कारणं रत्नत्रयसाम्राज्यमिति । तदिदमुक्तम्
" अस्थि जिओ तह णिच्चो, कत्ता भुत्ता स पुण्णपावाणं ।
अत्थि धुवं निव्वाणं, तस्सोबाओ अ छट्टाणा ॥ १ ॥ " इति ॥ ५५ ॥ अथानेकान्तवादमवलम्ब्यैवा विसंवाद्यनुमानप्रमाणप्रवृत्तेस्स्याद्वादिन एवाऽन्यथाऽनुपपचिलक्षण व्याप्तिमद्धेतोः पक्षे सांध्यानुमितिरुपपद्यते, न त्वेकान्तवादिनः, साधर्म्य वैधर्म्यतो वा एकान्तसाध्यसाधकानुमानप्रमाणस्यैवानवतारादिति प्रतिपिपादयिषुस्सूरिशह-साहम्मओ व अत्थं, साहेब परो विहम्मओ वावि । अन्नोनं पडिकुडा, दोण्ण वि एए असव्वाया ॥ ५६ ॥
“ साहम्मओ व अत्थं साहेज परो " साधर्म्यतो वा अर्थ साधयेत् परः, समानस्तुल्यः साध्यसामान्यान्त्रितः साधनधर्मो यस्य असौ सधर्मा, तस्य भावः साधर्म्यम्, ततोऽर्थं साध्य. धर्माधिकरणतया धर्मिणं साधयेत् परः एकान्तनयवादी, अन्वयिहेतुप्रदर्शनात् साध्यधर्मिणि विवक्षितं साध्यं यदि वैशेषिकादिः साधयेत्, यद्वा समानो धर्मो यस्यासौ सघर्मा, सधर्मणो
"Aho Shrutgyanam"