________________
३६४
सम्मति० काण्ड ३, गा० ५६
भावः साधयं, तस्मात् , साध्येन सह हेतोरन्वयच्याप्तिदृहीता यत्र तल्लक्षणसाधर्म्यदृष्टान्त द्वाराऽन्वयिहेतीरित्यर्थः, अर्थ साध्यधर्मिणि विवक्षितं साध्यं यदि परो वैशेषिकादिः साधयेत् तदा अयं श्यामः तत्पुत्रत्वात् अपस्तत्पुत्रवदित्यनुमाने तत्पुत्रत्वादेरपि गमकत्वं स्यात, अन्वयमात्रस्य तत्रापि भावात् । " विहम्मओ चा वि" वैधाद् विगतस्तथाभूतः साधनधर्मो यस्मादसौ विधर्मा, तस्य भावो वैधर्म्यम् , तस्माद् व्यतिरेकिणो हेतोः प्रकृतं साध्यं साधयेत् । यद्वा विसदृशो धमों यस्य स विधर्मा विधर्मणो भावो वैधर्म्यम् , तस्मात् , अर्थात् साधनाभावेन सह साध्याभावस्य व्याप्तिर्गृह्यते यत्र तल्लक्षणवैधHदृष्टान्तद्वारा व्यतिरेकिहेतो. येदि साध्यं साधयेत् , गाथायां वाशन्दस्य समुच्चयार्थत्वाद् वाशब्दस्य विकल्पार्थत्वे त्वपि. शम्दस्य समुच्चयार्थत्वादुभाभ्यो वा, तथापि तत्पुत्रत्वादेरेव गमकत्वप्रसक्तिः, श्यामत्वाभावे तत्पुत्रत्वादेरन्यत्र गौरपुरुषेऽभावात् , उभाभ्यामपि तत्साधने अत एव साध्यसिद्धि. प्रसक्तिस्स्यात् । “अन्नोनं पडिकुट्ठा दोण्णवि एए असहाया" अन्योन्यं प्रतिक्रुष्टौ द्वावपि एतावसद्वादौ । अयम्भाव:-पर: साध्यं साधयन् न तावत्सामान्यं साधयेत् , केवलस्य तस्य वशित्वाश्वत्वगोत्वादेर्दहनवेगगमनदोहनाधक्रियाकारित्वाभावेनासद्रपतया प्राक् प्रति. पादितत्वात् । नाऽपि विशेषम्, प्रतिव्यक्तिभिन्नरूपत्वेन तस्याननुगतत्वेन व्याप्तिग्रहामावेन साधयितुमशक्यत्वात् । न च विशेषरूपयोस्साध्यहेत्वोस्सर्वोपसंहारेण व्याप्तिग्रहाभावेऽपि सामान्यरूपेणानुगतत्वात् समवायसम्बन्धेन तद्विशिष्टयोस्तयोस्स भविष्यत्येवेति वाच्यम् , समवायस्य पूर्व निषिद्धत्वेन तेन सम्बन्धेन तद्विशिष्टत्वाऽसिद्धेः, " पर्वतो जातिमद्वान इत्या. दावतिप्रसङ्गाच" अस्यायम्भावः-यत्र यत्र धूमस्तत्र तत्र जातिमानित्येवं सामान्यरूपेणान्वयव्यालेस्सद्भावेन धूमावर्वद्वित्वेनेव सामान्यतो जातित्वालिङ्गितवाहित्वेनापि बढेस्सिद्धिप्रसङ्गस्यात्, न चेष्टापत्तिरिति वाच्यम् , धूमवहयोधूंमत्वेन ववित्वेन यः कार्यकारणभाव. स्तद्वलादेव तयोरन्ताप्तिग्रहामेन वहथनुमान युक्तम् , यद्यपि यत्र यत्र धूमस्तत्र तत्र जातिमानिति व्याप्तिस्सम्भवति परं सा न कार्यकारणभावमूलिका, न हि धूमत्वावच्छिन्नम्प्रति वह्नित्वावच्छिन्नस्य यत्कारणत्वं तजातित्वावच्छिन्नवतित्वनिष्ठावच्छेदकतानिरूपितं किन्तु निरवच्छिन्नवतित्वनिष्ठावच्छेदकतानिरूपितमेवेति तत् धूमत्वेन धूमहेतुना निरवच्छिभवह्नित्वेन बहेरेवानुमानेऽन्ताप्तिग्राहकतोपयुक्तमितीष्टापत्तेः कर्तुमशक्यत्वात् । नाप्यु. भयम् , उभयदोषानतिवृत्तेः, नाप्यनुभयम् , तस्याऽसतो हेत्वव्यापकत्वेन साध्यत्वाऽयोगाद , तदेवमन्योन्यं प्रतिक्रुष्टौ प्रतिक्षिप्तौ द्वावप्येतो सामान्यविशेषकान्तावसद्वादाविति सिद्धम् , इतरविनिर्मुक्तस्यैकस्य शशशृङ्गादेखि साधयितुमशक्यत्वात् । अत्राह नैयायिक:-नन्वनौपाधिकसम्बन्धो व्याप्तिरिति तत्पुत्रत्वहेतौ शाकपाकजत्वस्य साध्यव्यापकत्वे सति साधनाव्यापकतयोपाधित्वेन सोपाधिकतयोक्तलक्षणव्यायभावादुक्तहेतुाप्यत्वाऽसिद्धः, यस्मिश्च हेतौ व्याप्यत्वासिद्धिस्तत्र व्यापकव्यभिचारिणो व्याप्यव्यभिचारित्वनियमाद् व्यभिचार
"Aho Shrutgyanam"