________________
सम्मतिः कान्ड ३, गा. ५६
३६५ दोषोऽपि, अत एष सकलविपक्षव्यावृत्तिनिश्चयाभावेन पञ्चरूपाऽमावाभास्य गमकत्वमिति चेत् , तईन्यथाऽनुपपनत्वनिश्चयाभावादेवागमकत्वं तत्पुत्रत्वहेतोरुक्तं स्यादिति निश्चिताऽन्यथाऽनुपपनत्वस्यैव हेतुलक्षणत्वमस्तु । एतेन रूपत्रयवादी बौद्धोऽपि तत्पुत्रत्वहेतौ विपक्षे असत्वं निश्चितं नास्ति, न हि श्यामत्वाऽसत्वे तत्पुत्रत्वेनावश्यं निवतेनीयमित्यत्र प्रमाणमस्तीति वदन् निरस्तः। निश्चितान्यथानुपपनत्वमात्रस्यैकरूपस्य हेतुलक्षणत्वो. पपत्तेस्त्रैरूप्यस्यापि पचरूयत्वस्येवाऽकिश्चित्करत्वात् " तदेवं अनुपलब्धिा स्वभावकार्ये घेति " न्यायबिन्दुद्वितीयपरिच्छेदसूत्रोक्तानुपलब्धिस्वभावकार्यभेदभिन्नहेतुत्रयेषु “ उदा. हरणमाघात्साध्य साधनं हेतुः" । ३४ । " तथा वैधात् " ३५ इति प्रथमाध्याय. प्रथमाहिकचतुतिशतपश्चत्रिंशन्यायसूत्रोक्तान्वयिव्यतिरेक्यन्वयिव्यतिरेक्यात्मकहेतुत्रयेषु च "अस्येदं कार्य कारणं संयोगिविरोधिसमवायि चेति" ९-२-१ इति वैशेषिकसूत्रनवमा. ध्यायद्वितीयाहिकप्रथमसूत्रोक्तकार्यकारणसंयोगिविरोधिसमवायिरूपेषु हेतुभेदेषु च एवमन्यवाद्युक्तसकलहेतुमेदेषु प्रवर्तमानस्य सद्धेतुरूपलक्ष्यव्यापिन: सर्वसाचालक्ष्यादसिद्धादिहेत्वाभासप्रपश्चाद् व्यावर्तमानस्य निश्चितान्यथानुपपन्नत्यस्य हेतुलक्षणत्वं युक्तिसिद्धमभ्युपगन्तव्यम्, तथाविधस्यापि तदलक्षणत्वे हि न किञ्चित्कस्यचिल्लक्षणं स्यादिति लक्ष्यलक्षणभाव एवोच्छिद्येत, तदुक्तं प्रमाणन यतत्त्वलोकालङ्कारे
" निश्चितान्यथानुपपत्येकलक्षणो हेतुः ॥ ३ ॥११ । न तु त्रिलक्षणकादिरिति । ३ । १२ ।
तस्य हेत्वाभासस्यापि सम्भवादिति । ३ । १३ ।" अत्र बौद्धाः प्राहुः-ननु निश्चितसाध्याविनाभूतहेतावेवान्यथाऽनुपपनत्वं रूपम्, तत्र पक्षसमवसपक्षसत्त्वविपक्षासस्वात्मकरूपत्रयमप्यस्त्येवेति तद्वत्त्वमेव हेतुलक्षणमस्तु, यतः पक्ष. सवस्य हेतुलक्षणाऽघटकत्वे शब्दोऽनित्यः चाक्षुषत्वात् रूपवदित्यत्र शब्दरूपपक्षे चाक्षुषत्वहेतोरभावात्स हेतुस्स्वरूपाऽसिद्धोऽपि सपक्षे घटादौ वर्तते विपक्षे च शशशङ्गादौन वर्तत इति तस्य सपक्षसचविपक्षासवद्वयरूपसद्भावात्सद्धेतुत्वापच्या तज्ज्ञानेनानुमित्या. पतिस्स्यात्, न च सा भवतीत्यसिद्धत्वव्यवच्छेदार्थ पक्षधर्मत्वं गमकताङ्गमभ्युपगन्तव्यम् , सपक्षसवस्य हेतुलक्षणाघटकत्वे च विरुद्धत्वव्युदामाऽसम्भवेन शब्दो नित्यः कृतकत्वादित्यत्र नित्यत्वसाध्यामावव्याप्यतया विरुद्धेनापि कृतकत्वहेतुना साध्यानुमितिस्स्यात्, न च सा भवतीति विरुद्धत्वव्यवच्छेदार्थ सपक्षसचमप्यभ्युपगन्तव्यम् । विपक्षासत्त्वस्य हेतुलक्षणघटकत्वाऽभावे इदो वहिमान् प्रमेयत्वादित्यत्रानैकान्तिकत्वव्युदासस्याऽसम्भवेन व्यभिचारिणः प्रमेयत्वहेतोः पक्षे इदे सपक्षेच महानसादौ सवेन पक्षसत्रसपक्षसत्वरूपद्वय. विशिष्टेन तेन हेतुना ज्ञातेनानुमित्युत्पत्तिस्स्यादिति तत्रानकान्तिकत्वव्यवच्छेदार्थ विपक्षा
"Aho Shrutgyanam"