Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 509
________________ सम्मति. काण्ड ३, गा० ५४ योगक्षेमाविति । सर्वे पदार्थाः कस्यचित्प्रत्यक्षस्य विषयाः प्रमेयत्वात् घटादिवदित्यनुमान च तत्र प्रमाणम् । अथात्र सकलपदार्थसाक्षात्कार्येकज्ञानविषयत्वं साध्यते ? किं वा प्रतिनियतप्रतिमासकभिन्नभिभप्रत्यक्षविषयत्वम् ?, तत्र नायः, घटादिषु प्रमेयत्वहेतोनियतावगायनेक प्रत्यक्षविषयत्वव्याप्ततयैवोपलभ्यमानत्वेन हेतोर्विरोधाघ्रातत्वात् , साध्यविकलत्वाच दृष्टा. न्तस्य । नापि द्वितीया, अर्थान्तरत्वावाः। एवमशेषज्ञेयावलम्बिप्रमाणविषयत्वमुत तत्तद्विषयकप्रमितिविषयत्वं किं वान्यल्लक्षणं प्रमेयत्वं हेतुत्वेनोपन्यस्यते १-तत्राबस्तु विवाद. गोचरीभूतेषु प्रत्येकरूपेण तस्याऽसम्भवेन भागासिद्धिप्रसङ्गतोऽसम्भवी, सम्भवे वा तत एव साध्यसिद्धेस्नर्थकमनुमानोपन्यसनम् , दृष्टान्ते च तथाभूतप्रमाणप्रमेयत्वस्याद्याप्यसिद्धे. रसिद्धान्वयश्च हेतुः। द्वितीयपक्षोऽप्यसङ्गत एव, पक्षान्तर्गतेष्वतीन्द्रियेषु तस्थासम्भवेन मामासिद्धत्वात् , अन्त्योऽप्यसिद्ध एव, तादृशस्य प्रामाणिकैरनभ्युपगमादिति न च प्रेर्यम् , सकलानुमानस्यैवमेवोच्छेदप्रसङ्गात् , तथा हि, पर्वतो वलिमानित्यत्रापि कशानुः प्रतिनियता किं वा पक्षदृष्टान्तोमयवृत्तित्वविशिष्टस्साध्यते, तत्राये यदि महानसर्मिकस्तदा तव्याप्य धूमः पक्षेऽभावात्स्वरूपासिद्धः, पर्वतधार्मिकस्तदा धूमस्तस्थाप्यतयाऽगृहीतत्वाद् व्याप्य. स्वासिद्धः । न द्वितीयोऽपि, कस्यापि बढेरुक्तोमयवृत्तित्वाभावात् । एवं धूमहेतावप्येवमेव कक्षाद्वयी, तत्रायस्साध्यधर्मिधर्मो दृष्टान्तेऽनन्वयी, दृष्टान्तधर्मिकश्च स्वरूपासिद्ध इत्यसम्भवी। द्वितीयोऽप्यसिद्धः, कस्यापि धूमस्योभयवृत्तित्वासम्मवात् । अथ नैवं सविशेषणी साध्य हेतू क्रियेते, किन्तु निर्विशेषणौ सामान्यरूपावेवेति चेत् , तर्हि प्रकृतेऽपि कथं नैवं विचारपद्धतिशरणं क्रियते । न च वाच्यं धूमत्वावच्छिन्नस्य वह्नित्वावच्छिन्नजन्यत्वेन तयोः कार्य कारणभावतः कार्येण कारणानुमानं प्रमाणभावमवलम्बते, अत्र तु कार्यलिङ्गस्यैवाभावतो नोक्तसिद्धिरिति, ग्रहोपरागमन्त्रौषधिशक्त्यादितथाविधफलप्रसाधकातीन्द्रियगोचरवचनविशेषः तत्साक्षात्कारिज्ञानपूर्वकस्तद्विषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वकवचन विशेषत्वाद् अस्मदादिप्रवर्तितथाभूतवचनविशेषवदित्येवं तथाभूतवचनविशेषात्मककार्यलिङ्ग. स्यापि तत्प्रसाधकस्य सद्भावात, इदश्च प्रागेर विवेचितमिति नेह विविच्यते, तदेवं सिद्धः सर्वक्षः, सिद्धे च तस्मिन् परमशुक्लध्यानेनावशिष्टभवोपग्राहिकर्मणि निश्शेषतः क्षीणे तस्य मुक्त्यवाप्तिरित्यस्त्येव निर्वाणमिति सिद्धम् ' अग्निहोत्रं जरामयं वा कुर्यात् ' इति श्रुतावपि विकल्पार्थक 'वा' शब्देन मोक्षार्थिनां मोक्षसाधकक्रियाकालोऽपि प्रदर्शित एवेति । अधिकच प्रथमगाथाविवृतावेवोक्तमिति नेह विस्तार्यते ।५। एतेन 'नस्थि य मोत्थोवाओ' सर्वभावानां नियतत्वेनाकस्मादेव भावात् , स्वभावाद्वा भावादित्यनुपायवादिमतात्मकं षष्ठं मिथ्यात्वस्थानमपि निरस्तम् , अकस्माद्भवतीत्यत्र यदा किं शब्दो हेतुपरस्तदा तस्य नाऽभि. सम्बन्धाद्धत्वभावे सति भवतीत्यर्थो लभ्यते, यदा तु भवनक्रियाया ना सम्बन्धस्तदा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556