Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 516
________________ सम्मति• काण्ड ३, गा०,५६ विवादापने धूमेऽग्निजन्यत्वस्य बाधकामावात् , विवादापनो धूमोऽनिजन्यो न स्यात्तर्हि धूमार्थी वलयानयनार्थ नैव प्रवर्त्तत, प्रवर्तते च तदर्थी तस्माद् धूमो धनञ्जयजन्य इति प्रसङ्गविपर्ययाभ्यां विवादापने धूमेऽग्निजन्यत्वस्य सिद्धेः । एरमसत्प्रतिपक्षत्वमपि, अनग्निजन्यत्वसाधकस्यानुमानस्यात्राऽसम्भवादिति सिद्धं हेत्वामासेऽपि सत्वहेतौ पश्वरूपत्वम् , तथा चालक्ष्ये सत्चहेतायुक्तलक्षणगमनादतिव्याप्तं तल्लक्षणं न समीचीनतामञ्चति । सामस्त्येन व्यतिरेकव्याप्तिनिश्चयस्यात्राभावात् सचहेतावसिद्धं पश्चरूपत्वमिति चेत्, न, तस्य निश्चितान्यथाऽनुपपन्नत्वरूपत्वेन तदभावे शेषरूपाणामकिश्चित्करत्वापत्तेस्तद्विकलस्यैव पश्चलक्षणत्वस्यालक्षणत्वेन साध्यत्वात् , यत्पुनरबाधित विषयत्वासत्प्रतिपक्षत्वयोरमावादेकशाखाप्रभवत्वतत्पुत्रत्वहेतोरगमकत्वमगादि, तत्राप्यन्यथानुपपन्नत्वाभाव एव निमित्तम् , न पुनरवाधितविषयत्वासत्प्रतिपक्षत्वयोरभावः । तयोः सतोरप्यगमकत्वस्थानन्तरमेव दर्शित. स्वात् । किश्चाबाधितविषयत्वस्य तानिश्चितस्यैव हेत्वङ्गत्वमङ्गीकार्यम् , अन्यथा पक्षधर्मः त्वादेरप्यनिश्चितस्य हेत्वङ्गत्वप्रसङ्गस्स्यात् । न च तनिश्चयः सम्भवति, तनिश्चयसाध्यनिश्चययोः परस्पराश्रयणात् । सति हि बाधाभावनिश्चये हेतोः साध्यनिश्चयः, तनिश्चयाच नाधाभावनिश्चय इति न तयोरन्यतरस्य सिद्धिः। यच्चान्यतः कुतश्चिद् बाधाऽभावनिश्च यात परस्पराश्रयपरिहारप्रतिपादनं क्रियते, तदपि न मनोरमम् , यतस्तनिवन्धनमनुपलम्भः संवादो वा स्यात्, न तावदनुपलम्भः, सर्वसम्बन्धिनस्तस्याऽसिद्धेः, आत्मसम्बन्धिनस्तस्यानैकान्तिकत्वात् । नाऽपि संवादः, प्रागनुमानप्रवृत्तस्तस्यासिद्धेः, अनुमानोत्तरं तत्सिद्ध्य. भ्युपगमे परस्पराश्रयः, अनुमानात्प्रवृत्तौ संवादनिश्चयः, ततश्चाबाधितविषयत्वाऽवगमेऽनु. मानप्रवृत्तिरिति, न चाविनाभावनिश्चयादेवाबाधितविषयत्वनिश्चयः, हेतौ पञ्चरूपयोगिन्यवि. नाभावपरिसमाप्तिवादिनामबाधितविषयत्वाऽनिश्चयेऽविनाभावनिश्चयस्यैवाऽसम्भवात् । नन्वे. वमन्यथानुपपत्तिलक्षणाऽविनाभावोऽपि हेतुलक्षणं न सम्भवति, तनिश्चयोऽपि साध्यसद्भावनिश्चयायत्तः, सोऽपि चाविनाभावनिश्चयाधीन इत्येत्रमितरेतराश्रयस्य प्रसङ्गादिति चेत्, न, अविनाभावनियमस्य हेतो तख्यिप्रमाणान्तरानिश्चयोपगमादितरेतराश्रयानवकाशात्, नन्वेवं तर्हि यस्मात्तारख्यप्रमाणादविनाभावनिश्चयो हेतौ तत एव साध्यस्यापि सिद्धेस्तत्र हेतोरकिश्चित्करत्वमिति चेत् , न, हेतोर्देशादिविशेषावच्छिन्नस्य साध्यस्य साधनात् । तकेंप्रमाणात्तु सामान्यत एव तत्सिद्धेः। तकशाखाप्रभवत्वादेर्वाधित विषयत्वाद्धेत्वाभासस्वम्, किन्त्वन्यथानुपपत्यभावादेवेति । नाऽपि तत्पुत्रत्वादेस्सत्प्रतिपक्षत्वाद्धेत्वाभासत्वम् , यतः प्रतिपक्षस्तुल्यवलोऽतुल्यबलो वा स्यात् , द्वयोस्तुल्यबलत्वे बाध्यबाधकभावाऽनुपपत्तिः, अतुल्यबलत्वं वनयोः किं पक्षधर्मत्वादिभावाभावकतमनुमानबाथजनितंबा, न तावदाय: पक्षो निरवद्यः, पक्षधर्मत्वादेरुक्तहेतुद्वयस्याऽविशेषाद , मूर्खत्वाभावे साध्ये शास्त्रव्याख्यानादिकलाकौशलशालित्त्वस्येव मूर्खत्वे साध्ये तत्पुत्रत्वस्यापि पक्षधर्मत्वादिसम्भवात् । द्वितीय "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556