________________
सम्मति• काण्ड ३, गा०,५६ विवादापने धूमेऽग्निजन्यत्वस्य बाधकामावात् , विवादापनो धूमोऽनिजन्यो न स्यात्तर्हि धूमार्थी वलयानयनार्थ नैव प्रवर्त्तत, प्रवर्तते च तदर्थी तस्माद् धूमो धनञ्जयजन्य इति प्रसङ्गविपर्ययाभ्यां विवादापने धूमेऽग्निजन्यत्वस्य सिद्धेः । एरमसत्प्रतिपक्षत्वमपि, अनग्निजन्यत्वसाधकस्यानुमानस्यात्राऽसम्भवादिति सिद्धं हेत्वामासेऽपि सत्वहेतौ पश्वरूपत्वम् , तथा चालक्ष्ये सत्चहेतायुक्तलक्षणगमनादतिव्याप्तं तल्लक्षणं न समीचीनतामञ्चति । सामस्त्येन व्यतिरेकव्याप्तिनिश्चयस्यात्राभावात् सचहेतावसिद्धं पश्चरूपत्वमिति चेत्, न, तस्य निश्चितान्यथाऽनुपपन्नत्वरूपत्वेन तदभावे शेषरूपाणामकिश्चित्करत्वापत्तेस्तद्विकलस्यैव पश्चलक्षणत्वस्यालक्षणत्वेन साध्यत्वात् , यत्पुनरबाधित विषयत्वासत्प्रतिपक्षत्वयोरमावादेकशाखाप्रभवत्वतत्पुत्रत्वहेतोरगमकत्वमगादि, तत्राप्यन्यथानुपपन्नत्वाभाव एव निमित्तम् , न पुनरवाधितविषयत्वासत्प्रतिपक्षत्वयोरभावः । तयोः सतोरप्यगमकत्वस्थानन्तरमेव दर्शित. स्वात् । किश्चाबाधितविषयत्वस्य तानिश्चितस्यैव हेत्वङ्गत्वमङ्गीकार्यम् , अन्यथा पक्षधर्मः त्वादेरप्यनिश्चितस्य हेत्वङ्गत्वप्रसङ्गस्स्यात् । न च तनिश्चयः सम्भवति, तनिश्चयसाध्यनिश्चययोः परस्पराश्रयणात् । सति हि बाधाभावनिश्चये हेतोः साध्यनिश्चयः, तनिश्चयाच नाधाभावनिश्चय इति न तयोरन्यतरस्य सिद्धिः। यच्चान्यतः कुतश्चिद् बाधाऽभावनिश्च यात परस्पराश्रयपरिहारप्रतिपादनं क्रियते, तदपि न मनोरमम् , यतस्तनिवन्धनमनुपलम्भः संवादो वा स्यात्, न तावदनुपलम्भः, सर्वसम्बन्धिनस्तस्याऽसिद्धेः, आत्मसम्बन्धिनस्तस्यानैकान्तिकत्वात् । नाऽपि संवादः, प्रागनुमानप्रवृत्तस्तस्यासिद्धेः, अनुमानोत्तरं तत्सिद्ध्य. भ्युपगमे परस्पराश्रयः, अनुमानात्प्रवृत्तौ संवादनिश्चयः, ततश्चाबाधितविषयत्वाऽवगमेऽनु. मानप्रवृत्तिरिति, न चाविनाभावनिश्चयादेवाबाधितविषयत्वनिश्चयः, हेतौ पञ्चरूपयोगिन्यवि. नाभावपरिसमाप्तिवादिनामबाधितविषयत्वाऽनिश्चयेऽविनाभावनिश्चयस्यैवाऽसम्भवात् । नन्वे. वमन्यथानुपपत्तिलक्षणाऽविनाभावोऽपि हेतुलक्षणं न सम्भवति, तनिश्चयोऽपि साध्यसद्भावनिश्चयायत्तः, सोऽपि चाविनाभावनिश्चयाधीन इत्येत्रमितरेतराश्रयस्य प्रसङ्गादिति चेत्, न, अविनाभावनियमस्य हेतो तख्यिप्रमाणान्तरानिश्चयोपगमादितरेतराश्रयानवकाशात्, नन्वेवं तर्हि यस्मात्तारख्यप्रमाणादविनाभावनिश्चयो हेतौ तत एव साध्यस्यापि सिद्धेस्तत्र हेतोरकिश्चित्करत्वमिति चेत् , न, हेतोर्देशादिविशेषावच्छिन्नस्य साध्यस्य साधनात् । तकेंप्रमाणात्तु सामान्यत एव तत्सिद्धेः। तकशाखाप्रभवत्वादेर्वाधित विषयत्वाद्धेत्वाभासस्वम्, किन्त्वन्यथानुपपत्यभावादेवेति । नाऽपि तत्पुत्रत्वादेस्सत्प्रतिपक्षत्वाद्धेत्वाभासत्वम् , यतः प्रतिपक्षस्तुल्यवलोऽतुल्यबलो वा स्यात् , द्वयोस्तुल्यबलत्वे बाध्यबाधकभावाऽनुपपत्तिः, अतुल्यबलत्वं वनयोः किं पक्षधर्मत्वादिभावाभावकतमनुमानबाथजनितंबा, न तावदाय: पक्षो निरवद्यः, पक्षधर्मत्वादेरुक्तहेतुद्वयस्याऽविशेषाद , मूर्खत्वाभावे साध्ये शास्त्रव्याख्यानादिकलाकौशलशालित्त्वस्येव मूर्खत्वे साध्ये तत्पुत्रत्वस्यापि पक्षधर्मत्वादिसम्भवात् । द्वितीय
"Aho Shrutgyanam"