________________
सम्मति• काण्ड ३, गा० ५६
३६७ ज्ञेयम् , सर्वमनेकान्तात्मकं उत्पादव्ययधौव्यलक्षणसस्वान्यथाऽनुपपत्तेः, सर्वममिधेयं प्रमे. यत्वादित्यादौ सपक्षविपक्षाभावात् सपक्षसत्त्वविपक्षासवाभावेऽप्यनुमित्युपपत्तेः । ननु सपक्षसस्वस्थ साध्यगमकतानङ्गत्वे तेन साध्यवदसवलक्षणविरोधदोषाऽन्युदासाद्विरुद्धेनापि हेतुना, एवं विपवासस्वस्य तदनङ्गत्वे तेन साध्याभाववद्वत्तित्वलक्षणव्यभिचारदोषाऽभ्युदासाहयामि। चारिणापि हेतुनाऽनुमित्युत्पत्तिस्स्यादिति न च वाच्यम्, निश्चितान्यथानुषपणत्व. लक्षणत्वादेव हेतोविरुद्धत्वादिदोषपरिहारसिद्धः, न यसिद्धविरुद्धादिषु हेत्वाभासेषु निशितान्यथाऽनुपपत्तिस्सम्भवतीति न विरुद्धादिहेतुनाऽनुमित्युत्पत्तिप्रसङ्ग इति निषितान्यथाऽनुपपत्तिरेव लक्षणं हेतोरभ्युपगन्तव्यमिति । अत्र नैयायिकाः प्रत्यवतिष्ठन्ते, बौद्धाभ्युपगतं त्रैरूप्यं हेतोर्लक्षणं मा भूत , एतानि सहकारफलानि पक्वानि एकशाखाप्रभवत्वाद् उपयुक्तसहकारफलवदित्यादावामताग्राहिप्रत्यक्षबाधितविषये, अयं देवदत्तो मूर्खः चैत्रपुत्रत्वात् अपरतत्पुत्रवदित्यादौ अयं देवदत्तो मूखों न भवति विविधशास्त्रव्याख्यानादिकलाकौशलशालित्वात् प्रतिपन्नप्राज्ञपुरुषवदिति प्रतिपक्षानुमानेन सत्प्रतिपक्षितेऽपि च हेतावस्य सम्भवात् , पचरूपत्वं तु हेतुलक्षणं भवत्येव, निर्दोषत्वात् , तथाहि यस्य पक्षधर्मता नास्त्यसावसिद्धो हेत्वाभासः, यथा शब्दोऽनित्यः चाक्षुषत्वात् रूपवदिति, सपक्षे सत्वं यस्य नास्ति स विरुद्धः, यथा शब्दो नित्यः कृतकत्वादिति, यस्य विपक्षाच्यावृत्ति स्त्यसावनकान्तिकः यथा पर्वतो वह्निमान् प्रमेयत्वात् शब्दो नित्यः प्रमेयत्वाद्वेति, यस्याषाधित. विषयत्वं नास्ति स कालात्ययापदिष्टः, यथा वहिरनुष्णो द्रव्यत्वादिति प्रत्यक्षबाधितविषयः, ब्रामणेन जैनेन वा सुरा पेया द्रवत्वात् क्षीरवदित्यागमवाधितविषयः, अतः स हेतु: कालात्ययापदिष्टः, यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः, यथा शब्दोऽनित्या नित्यधर्माऽनुपलब्धेर्घटवत् , शब्दो नित्योऽनित्यधर्माऽनुपलब्धेः आकाशवदिति । तथा च पवरूपाणि यस्मिन् हेतो स एव निर्दुष्ट इति ज्ञातस्सन् व्याप्तिस्मृतिद्वाराऽनुमित्युत्पादक इति पश्चरूपत्वमेव हेतुलक्षणमभ्युपगन्तव्यम् । यथोक्तं जयन्तेन
" पञ्चलक्षणकाल्लिङ्गाद् , गृहीतानियमस्मृतेः।
परोक्षे लिङ्गिनि ज्ञान-मनुमानं प्रचक्षते ॥ १ ॥” इति । अत्रोच्यते प्रतिविधानम्-हेतोः पश्वरूपत्वं लक्षणं न युक्तम् , त्रैरूप्यवत्तस्यापि हेत्वाभासेऽपि भावात् । यतोऽग्निजन्योऽयं धूमः सत्वात् , पूर्वोपलब्धधूमवदित्यत्र अग्निजन्यस्वाभावषति षटे सत्त्वहेतोर्विद्यमानत्वेन व्यभिचारदोषाक्रान्ततया हेत्वामासरूपेऽपि तस्मिन् हेतो पक्षधर्मत्वं तावदस्ति, पक्षीभूते धूमे सचहेतोरसंदिग्धत्वात् , सपक्षसवमपि तत्र विद्यते, पूर्वदृष्टे धूमेऽमिजन्यत्वेन निश्चिते सत्वहेतोस्सद्भावात् , विपक्षाऽसत्वमपि तत्र विद्यते खरविषाणादौ साध्यामावे साधनस्य सत्वस्याभावनिश्चयात् । अबाधितविषयत्वमप्यत्रास्ति,
"Aho Shrutgyanam"