________________
सम्मति• काल ३, गा० ५६ पक्षोऽप्यसम्भाव्या, अनुमानवाघजनिताऽतुल्यबलत्वस्याऽऽद्याप्यसिध्धेः, नहि द्वयोः पक्षधर्मत्वाद्यविशेषे एकस्य बाध्यत्वमपरस्य बाधकत्वं युक्तम् , अविशेषेणैव तत्प्रसङ्गात्, परस्पराश्रयश्व, तथाातुल्यबलत्वे सत्यनुमानबाधा, तस्यां च सत्यामतुल्यबलत्वमिति । तदेवं हेतो पक्षधर्मत्वादिपञ्चरूपायहं मुश्च स्वीकुरु च निश्चितान्यथाऽनुपपनत्वमात्रमेकरूपम् । तदुक्तम्
" अन्यथाऽनुपपन्नत्वं, रूपैः किं पञ्चभिः कृतम् ।
नान्यथानुपपन्नत्वं, रूपैः किं पञ्चभिः कृतम् ? ॥१॥" इति । तथा च निश्चितान्यथाऽनुपपनत्वैकलक्षणको हेतुरिति सिद्धम् । तदन्यो हेत्वाभासः, हेतुबदाभासते इति व्युत्पत्तेर्दुष्टहेतुरिति यावत् । अत्र नैयायिकास्तल्लक्षणन्त्वेवं वदन्ति-अनु. मितितत्करणान्यतरप्रतिवन्धकयथार्थज्ञानविषयवचं दुष्टहेतुत्वम् । दोषसामान्यलक्षणन्तुअनुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम्, अनुमितितत्करणान्यतरप्रतिबन्धकतावच्छेदकयथार्थज्ञानविषयत्वमिति यावत् , तेनोदासीनविषयस्य समूहालम्बनात्मकता. दृशज्ञानविषयत्वेऽपि नातिप्रसङ्ग इति बोध्यम् । अस्यापि यद्पावच्छिन्नविषयकज्ञानसामान्यमनुमितिप्रतिबन्धकं तद्रूपावच्छिन्नत्वं दोषत्वमित्यौत्र तात्पर्यम् , तेन न वलयमावादावतिव्याप्तिः, वह्वयभावत्वावच्छिन्नविषयकस्य ' वह्नयमाववान् इदः' इति ज्ञानस्यानु. मितिप्रतिबन्धकत्वेऽपि तादृशज्ञानसामान्यान्तर्गतस्य ' वह्नयमावः' इत्याकारकज्ञानस्या. ऽप्रतिबन्धकत्वेन वह्वयभावत्वादेर्यद्रपपदेनोपादानाऽसम्भवात् जैनमते तु सद्धेतुभिमः हेतुत्वमेव दुष्टहेतोर्लक्षणम् , अत एवं जैनतर्कपरिभाषायां " सोऽयमनेकविधोऽन्यथाऽनु. पपत्येकलक्षणो हेतुरुक्तः, असोऽन्यो हेत्वाभासः" इत्युक्तं सङ्गच्छते । स त्रिविधः असिद्ध. विरुद्धानकान्तिकमेदाद, तत्राप्रतीयमानस्वरूपो हेतुरसिद्धः, स्वरूपाप्रतीतिश्च कस्यचित्पुंसो हेतोरज्ञानात् , कस्यचित् हेतुस्वरूपे सन्देहात्, कस्यचित्पुनः विपर्ययाद्भवति, असिद्धोऽपि हेत्वाभास उभयासिद्धाऽन्यतरासिद्धभेदेन द्विविधः, यो हेतु दिप्रतिवाद्युभयमतेन पक्षास्मके धर्मिण्यसिद्धः स आधः, उमाभ्यामपि पक्षे हेत्वभावाभ्युपगमात् , यथा शब्दा परिणामी चाक्षुषत्वादिति, अत्र चाक्षुषत्वहेतुः परिणामवादिना जैनेन नैयायिकेन च प्रतिवादिना शन्दात्मके पक्षे नाभ्युपगत इति उमयासिद्धः, यश्च हेतुः पक्षे वादिप्रतिवाद्यन्यतरेणासिद्धः स द्वितीयः, यथा अचेतनास्तरवः विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वादिति प्रयोग बौद्धौ जैन प्रति कुर्यात्तदा “से बेमि इमं पि जाधम्मयं एयं पि जाइधम्मयं, इमं पि बुड्दिधम्मयं एयं पि वुविधम्मयं, इमं पि चित्तमंतयं एवं पि चित्तमतयं, इमं पिछिण्णं मिलाइ एयं पि छिण्णं मिलाइ, इमं पि आहारंग एयं पि आहारगं, इमं पि अणिचयं एवं पि अणिश्चयं, इमं पि असासयं एयं पि असासयं, इमं पिचओवचयं एयं पि चओवचइयं,
"Aho Shrutgyanam"