________________
सम्मति• काय ३, गा० ५६ इमं पि विपरिणामधम्मयं एवं पि विपरिणामधम्मयं" (सू०४७) इत्याचारागसूत्रोक्तोतरूणां विज्ञानेन्द्रियायुनिरोधलक्षणमरणमभ्युपगच्छतः प्रतिवादिनो जैनस्योक्तहेतुर्न सिद्ध इति प्रतिवाद्यसिद्धोऽयं हेतुः। एवं बौद्धो वैशेषिकादिकं प्रत्युक्तानुमानं कुर्यात्तदापि " यद्यपि वृक्षादयोऽपि शरीरभेदा एव भोगाधिष्ठानत्वात् , न खलु भोगाधिष्ठानत्वमन्तरेण जीवनमरणस्वप्नजागरणभेषजप्रयोगबीजसजातीयानुबन्धानुकूलोपगमप्रतिकूलापगमादयः सम्भवन्ति, इद्धिशतभग्नसंरोहणे च भोगोपपादके स्फुटे एव । आगमोऽप्यस्ति
" नर्मदातीरसम्भूताः, सरलार्जुनपादपाः।
नर्मदातोयसंस्पर्शात् , ते यान्ति परमां गतिम् ॥१॥” इत्यादि । " श्मशाने जायते वृक्षः कङ्कगृध्रादिसेवितः" इत्यादि च, इत्येवं वैशेषिकदर्शनचतुर्थाध्यायद्वितीयाहिकपञ्चमसूत्रटीकायामुक्तत्वात्तरूणां विज्ञानेन्द्रियायुनिरोधलक्षणमरणमुपगच्छतः प्रतिवादिनो वैशेषिकादेरपेक्षयोक्तहेतुर्न सिद्ध इति प्रतिवाद्यसिद्धोऽयं हेतुः। सुखादयोऽचेतना उत्पत्तिमचादित्येवं जैनं प्रति साङ्ख्यो यद्यनुमानं विदधीत तदैकान्तसत्कार्यवादिसालथमते प्रागसतः सत्तालाभलक्षणोत्पत्तिमत्वं क्वचिदपि न सिद्धमिति सुखादिपक्षेऽप्यसिद्धमेतदिति वाद्यसिद्धत्वादन्यतरासिद्धोऽयं हेतुः । साध्याभावव्याप्तो हेतुविरुद्धः, अत एव जैनतर्कभाषायां साध्यविपरीतव्याप्तो विरुद्ध इत्युक्तं तल्लक्षणम् , तत्र साध्यविपरीत इत्यस्य साध्यस्य तदभावेन सह परस्परामावरूपत्वलक्षणप्रतिषेध्यप्रति षेधकमावो विरोध इति साध्यस्य विपरीत: साध्यस्याऽभाव एवेत्यर्थः, यथा शन्दो. ऽपरिणामी कृतकत्वादिति, अत्राऽपरिणामित्वस्य साध्यस्याभावः परिणामित्वमेव, अभावाभावस्य प्रतियोगिरूपत्वात् , तस्य व्याप्तत्वात्कृतकत्वहेतुर्विरुद्धः । यस्याऽन्यथाऽनुपपत्तिः सन्दिह्यते सोऽनैकान्तिका, अस्याप्यनिर्णीतसाध्यान्यथाऽनुपपत्तिको हेतुरनैकान्तिक इत्यत्रैव पर्यवसानम् , यतो यस्मिन् हेतो साध्याभावववृत्तित्वं सन्दिह्यते यदा तदानीं तस्मिन् हेतौ साध्यं विनाऽनुपपत्तिनिर्णयो न विद्यत इत्यनिर्णीतसाध्यान्यथाऽनुपपत्तिको हेतु:, यस्मॅिश्च हेतौ तन्निीयते यदा तदानीं तनिर्णयात्मकप्रतिबन्धकसचात् साध्याभाववदवृत्तित्वात्मकव्याप्तिलक्षणाऽन्यथानुपपत्तिनिर्णयाऽसम्भवादप्यनिर्णीतसाध्यान्यथाऽनुपपत्तिको हेतुरनैकान्तिका, अस्य सव्यभिचार इति नामान्तरम् । स द्वेधा निर्णीतविपक्षवृत्तिका सन्दिग्धविपक्षवृत्तिकच, आयो यथा शब्दो नित्यः प्रमेयत्वात् आत्मवदिति, अत्र नित्यस्वसाध्यस्याऽभावोऽनित्यत्वं तद्वत्तया निश्चिते विपक्षे घटादौ प्रमेयत्वस्य हेतोत्तिनिर्णीतेति भवति प्रमेयत्वहेतुनिर्णीतविपक्षवृत्तिकानै कान्तिका, द्वितीयो यथा अभिमतः सर्वज्ञो न भवति वक्तृत्वात् रथ्यापुरुषवदित्येवं मीमांसकेन जैनाभ्युपगतसर्वज्ञे सर्वज्ञत्वाsमावसाधने वक्तृत्वहेतुस्सन्दिग्धविपक्षपत्तिका, सर्वज्ञत्वाभावात्मकसाध्यस्याभावः सर्व
"Aho Shrutgyanam"