________________
सम्मति• काण्ड ३, गा० ५६
३७१ ज्ञत्वं तद्वति सर्वच वक्तृत्वहेतोस्सन्देहात् । एवं स श्यामो मित्रातनयत्वादित्यायप्युदा. हार्यम् । एतेनोक्तानुमाने शाकपाजत्वस्य मित्रातनयत्वसाधनावच्छिन्नश्यामवसाध्यव्या. पकत्वे सति मित्रातनयत्वसाधनाऽव्यापकत्वादुपाधित्वेन तद्वस्वेन सोपाधिकतया मित्रातन. यत्वहेतुाप्यत्वाऽसिद्ध इति नैयायिकाऽभ्युपगमोऽपि निरस्ता, मित्रातनयत्वहेतोश्श्या. मत्वसाध्याभाववति विपक्षे वृत्तिस्सन्दिग्धेत्यस्यापि सन्दिग्धविपक्षवृत्तिको हेतुरनैकान्तिक इत्यत्रैवान्तावादिति । एतेनाप्रयोजकापरनामाऽकिश्चित्कराख्यश्चतुर्थोऽपि हेत्वाभास मेदो धर्मभूषणेनाभिहितो निरस्तः, सिद्धसाधनबाधितविषयभेदाभ्यां द्विविधतया व्यावर्णित स्यास्य प्रतीतनिराकृताख्यपक्षाभासभेदानतिरिक्तत्वात् । अयम्भाव:-पत्र सिद्धसाधनदोषस्तत्र साध्यस्य सिद्धत्वेन यत्र च बाधितविषयत्वं तत्र साध्यस्य निराकृतत्वेन " अप्रतीतमनिराकृतमभीप्सितं साभ्यम्" ३-१४ ॥ इति प्रमाणनयतचालोकालङ्कारत्तीयपरिच्छेदचतुर्दशसूत्रोक्तलक्षणलक्षितसाध्यस्यैवाभावेन तद्विशिष्टस्य सत्पक्षस्याभावात्तत्र पक्षाभास एवेत्यतस्तदात्मकदोषाभिन्नत्वातदुभयदोषस्य न तदुभयमेदमिन्नाऽकिश्चित्कराख्यश्चतुर्थों दोषोऽतिरिक्त इति । अत एव कालात्ययापदिष्टोऽपि नैयायिकादिनाऽतिरिक्तदोषतयाऽभ्युपगतो निरस्तो वेदितव्यः, साध्यसन्देहकाल एव साध्यसाधनकालस्तदत्ययस्तदतिक्रमस्तस्मिन् काले बाधितसाध्यसाधनायाऽपदिष्टः प्रयुक्तो हेतु: कालात्ययापदिष्ट इत्यनेन बाधितविषय एवोक्तो भवति, तस्य पूर्वोक्तरीत्या निराकृतपक्षाभासदोषरूपतया हेत्वाभासत्वाऽसम्भवात् । न च यत्र पक्षदोषस्तत्र नियमेन हेतुदोषोऽपीति वाच्यम् , तथा सति साध्यविकल-साधन विकल-तदुभयविकल-दृष्टान्तलक्षणसाधर्म्यदृष्टान्तदोषाणां साध्याभाव विकल-साधनामावविकल-साध्याभावसाधनाभावोभयविकलदृष्टान्तलक्षणवैधयदृष्टान्तदोषाणामपि वाच्यत्वापत्तेः । प्रकरणसमोऽपि नैयायिकेन पश्चमभेदतयाऽभ्युपगतो हेत्वाभासो नातिरिक्तः, तुल्यबलसाध्यतद्विपर्ययसाधकहेतुद्वयरूपे सत्यस्मिन् प्रकृतसाध्यसाधनयोरन्यथाऽनुपपत्तिलक्षणाविनामावाऽनिश्चयेऽसिद्ध एवान्तर्भावात्तस्येति । यथा न्यायमते सव्यभिचारस्य साधारणासाधारणानुपसंहारिमेदेन त्रयो मेदा, न तथा जैनराद्धान्ते, यता पक्षमात्रवृत्तिहेतुरसाधारणोऽभिमता, तस्य साध्येन सहान्ताप्तिसद्भावे सद्धेतुत्वमुररीकृतमेव स्याद्वादिमिः, अत एव प्रमाणं स्वपरव्यवसायिज्ञानं प्रमाणत्वान्यथानुपपत्तेरित्यत्र पक्षमात्रवर्तिनोऽपि प्रमाणत्वस्य गमकत्वम् , शब्दस्यानित्यत्वे कृतकत्वमेव प्रयोजकम् , न तु शब्दत्वमित्यप्रयोजकत्वादन्ताप्रमावादेवागमकत्वं, तस्य पौद्गलिक. त्वादनित्य एव शब्द इत्यनित्यमात्रवृत्तित्वादनित्यत्वेन सह शब्दत्वस्य व्याप्तिरस्त्येवेति यदि विमाध्यते तदा गमकमनित्यत्वस्य तद्भवत्येवेति न तत्र कोऽपि दोषा, सर्वमनेकान्ता. त्मकं वस्तुत्वादित्यत्र पक्षतावच्छेदकस्य साध्यस्य च केवलान्वयित्वेऽपि सदनुमान मिष्ट. मिति नानुपसंहारिण्यपि कोऽपि दोष इति जैनमते साधारणनि कान्ति कलक्षण एक एव
"Aho Shrutgyanam"