Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 514
________________ ३६६ सम्मति० काण्ड ३, गा० ५६ सभ्वरूप मध्यभ्युपगन्तव्यमिति पक्षधर्मत्वादिरूपत्रयमेव सर्वस्मिन् हेतावस्तीति तदेव लक्षणमप्युपगन्तव्यमिति चेत्, अस्तु, न च नियमेनानुमित्युपयुक्तं तत्, निश्चितान्यथाSनुपपन्नत्वात्मक नियतैकरूपमात्रेणाप्यनुमित्युपपत्तेरिति तत्सचमकिञ्चित्करम्, अत एव पात्रस्वामिनाऽप्येवमुक्तम्--- 46 अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् १ | " " नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? ॥ १ ॥ इति । किश्च न खलु कृतिकोदयाच्छकटोदयाद्यनुमाने पक्षधर्मता सम्भवति अथ कालाकाशादि भविष्यच्छकटोदयादिमत् कृतिकोदयादिमत्त्वात् पूर्वोपलब्ध कालाकाशादिव दितीत्थमत्र पक्षधर्मताऽभिधीयते इति चेत्, तर्हि न कश्विदपक्षधर्मत्व हेतुः स्यात्, ran प्रासादधावल्यादौ साध्ये जगतो धर्मित्वेन पक्षधर्मत्वस्य कर्तुं शक्यत्वात् । तथाहि जगत् प्रासादघावल्ययोगि काककार्ण्ययोगित्वात् । तन्न नियमेन पक्षधर्मत्वं साध्यगमकताङ्गम्, अत एव भट्टोऽप्याह " पित्रोश्च ब्राह्मणत्वेन, पुत्रब्राह्मणताऽनुमा । सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥ १ ॥ नदीपुरोऽप्यधो देशे दृष्टः सन्नुपरिस्थिताम् । नियम्यो गमयत्येव, वृत्तां वृष्टिं नियामिकाम् || २ || " इति । • ननु हेतोर्बलद्वयम् एकं व्याप्तिरूपम्, द्वितीयञ्च पक्षधर्मतारूपम्, तत्राद्यबलेनानुमितौ नियतसाध्यस्थ भानम्, द्वितीयबलेन पक्षस्य तत्र भानमिति, यदि पक्षधर्मता नाहीक्रियते तदाऽनुमितौ कथं पक्षभानं नियमेन स्यादिति चेत्, उच्यते, अनुमितौ पक्षधर्मत्वस्यानङ्गत्वेऽपि यद्धर्म्यवच्छेदेन हेतोरसाध्यं विनाऽनुपपत्तिः प्रतिसन्धीयते तस्य धर्मिणोऽनुमितौ धर्मितया मानमित्येवं प्रतिनियतधर्मिमानं निर्वहत्येव, यथा नभश्चन्द्रास्तित्वं विना जलचन्द्रोऽनुपपन इत्यत्र, अत्र नहि समुद्रादिदेशान्तरवर्ति चन्द्रं विना जलचन्द्रोऽनुपपन्नः, किन्तु नभसि चन्द्रं विनैवेति नभ एव बिम्बभूतचन्द्रानुमितौ धर्मितया भासते, यद्वा यद्धर्मिणि हेतोर्ग्रहणं पक्षधर्मताज्ञानात्मकं साध्यानुमितिं जनयितुमलं तस्य धर्मिणोऽनुमितौ धर्मितया मानम्, यथा पर्वतो वह्निमान् धूमवश्वादित्यत्र, अत्र नहि अन्यदेशस्थितो धूमो गृहीतस्सन स्वाधिकरणदेशातिरिक्त देशस्थितत्रयनुमितिं जनयितुं समर्थः, किन्तु यस्मिन् देशे गृहीतस्सन अनुमितिं जनयति स एव देशोऽनुमितौ धर्मितया भासत इति । न चात्राप्यन्यथाऽनुपपन्नत्वलक्षणन्यात्यवच्छेदकतयैव पर्वतस्यानुमितौ कथं न भानमिति वाच्यम्, सर्वोपसंहारेण व्याप्तिग्रहणे धूमाधिकरणमात्राननुगामिनः पर्वतस्य विशिष्याप्रतिमासनेनावच्छेदकत्वाऽसम्भवादिति । पक्षसच्ववदेव सपक्षसच्वं विपक्षासत्वमपि च साध्यगमकतान "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556