Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
अम्मति का ३, गा० ५४ न्त:करणावच्छिमचैतन्यरूपत्वस्यैवात्मन्यऽसिद्धत्वेन तत्र कल्पिते कल्पितस्यापारमार्थिकस्य सुखदुःखादिसंवेदकत्वस्य वक्तुमशक्यत्वात् , यथा च वेदान्तिप्रक्रिया युक्तिरिक्ता तथा प्रागेवोपदर्शितेति पुनर्ग्रन्थगौरवमयान्नेह प्रदर्श्यते । बौद्धमतमाश्रित्य च "ण वेएइ" इत्यस्य यत्समर्थनं कृतं तदपि न युक्तम् , स्थिरात्मनः पूर्वमेव साधितत्वेन येनात्मना पूर्वकाला. वच्छेदेन यत्कर्म कृतं तस्मिनेवात्मनि तदुदयकाले तत्फलवेदनोपपत्तेः, मयैव यत्कृतं पुण्य. पापकर्म तस्य सुखदुःखफलमहमेवानुभवामीति प्रतीतेः। ४॥ यच्च मीमांसकमतमाश्रित्य सर्वज्ञाभावात् ' नत्थि निहाणं' इति पञ्चमस्थानमुक्तम् , तदप्ययुक्तम्, रागादयस्सर्वथा क्षयिणः, देशतः क्षयोपलब्धेः, दिनकरकरनिकरप्रतिरोधकमेघमालावत् । तथा चोक्तम्--
"दोषावरणयोर्हानि-नि:शेषाऽस्त्यतिशायिनी।
कचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः॥१॥" इत्यादिना प्राक् सर्वज्ञस्य साधितत्वात् तस्य परमशुक्लध्यानजन्याशेषकर्मक्षये सति तजन्यपरमानन्दरूपस्य निर्वाणस्य सिद्धेः। “यच्च यत्राप्यतिशयो दृष्टः" इत्यायुक्तं, तदप्यज्ञानविलसितमेव, तस्येन्द्रियप्रत्यक्षापेक्षयैव चरितार्थत्वात् , सर्वज्ञज्ञानं स्वतीन्द्रियप्रत्यक्षमेवेति । ननु सुशिक्षितोऽपि नटोऽतिशयितव्यायामसमासादितलङ्घनातिशयो विंशतिहस्तादिविस्तीर्णी क्षुद्रनदिकां लङ्घयति, न त्वतिशयितपरिणाहाम्भागीरथ्यादिनदीमिति । यदुक्तम्
"दशहस्तान्तरं व्योम्नि, यो नामोत्प्लुत्य गच्छति ।
न योजनमसौ गन्तुं, शक्तोऽभ्यासशतैरपि ॥ १॥” इति । यथा लङ्घनस्य व्यवस्थितोत्कर्षता, तथैव ज्ञानस्यापि, दृश्यते च न्यायादिशास्त्रपारंगतोऽपि व्याकरणशास्त्रविज्ञानशून्यो व्याकरणादिशास्त्रपरिनिष्ठितोऽपि न्यायादितन्त्रधियाsस्पृष्टा, एवश्व प्रकर्षप्राप्तमपि ज्ञानं व्यवस्थित प्रकर्षत्वान्न सर्वथा मिथ्याज्ञानमुन्मूलयितुमलम् , एवं वैराग्यादेरपि व्यवस्थित एवोत्कर्षः, अतो न रागादेरपि सर्वथा विलयो न्याय्य इति चेत् , अबोधविलसितमेतत् , यतो दृष्टान्तीकृतं लङ्घनं क्रियाविशेषश्शरीरधर्मस्तस्पटुता. प्रसाध्यः, पटुता च शक्तिविशेषरूपा व्यवस्थितलङ्घनानुकूलैव, कायो हि तत्तत्पूर्वोत्तरदेश. विभागसंयोगार्थमेव तादृशक्रियामपेक्षते, तौ च कायस्योपादेयौ तदन्यदेशता नात्मसात्कतुं प्रभविष्णू, लङ्घनमपि तदर्थमपेक्षमाणं न कायान्यदेशतामवलम्बते, कायोऽपि च यावल्लङ्कयितव्यदेशप्रापकोक्तशक्तिविशेषसहकृतस्वगत्युपष्टम्भकत्वेन परिणतधर्मास्तिकायसहकृतश्च तावद्देशव्याप्येव गतिविशेषलङ्घनमुत्पादयितुं प्रभु न्यथा, धर्मास्तिकायश्च लोकव्याप्यपि तं तं जीवं पुद्गलं प्रति तथैव तत्सत्स्वभावसव्यपेक्षं परिणतो, यथा कस्यचित्कुत्रचिदेव गत्युपटम्भको न तु सर्वस्य सर्वत्र, उक्तशक्तिविशेष एव तादृशलङ्घनप्रतिबन्धक श्लेष्मापनयनद्वारा व्यायामप्रयत्न उपोद्वलको, नत्वपूर्वलकनातिशयजनका, श्लेष्माणश्च तत्तल्लइनविषातका
"Aho Shrutgyanam"

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556