Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 503
________________ सम्मति० का ३, गा० ५४ न केनापि पुंसा रागादीनामत्यन्तक्षयः कर्तुं शक्यत इति सर्वज्ञो न सम्भवति, किश्च ये सातिशया दृष्टास्तेऽपि स्वस्त्रविषय एव न विषयान्तर इति देशकालस्वभावविप्रकृष्टार्थविषयकमिन्द्रियजज्ञानं न सम्भवति, तदुक्तं मट्टैः सर्वज्ञनिराकरणप्रस्तावे-- " यत्राप्यतिशयो दृष्टः, स स्वार्थाऽनतिलानात् । दूरसूक्ष्मादिदृष्टौ स्या-न्न रूपे श्रोत्रवृत्तिता ॥१॥ येऽपि सातिशया दृष्टाः, प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन, न त्वतीन्द्रियदर्शनात् ॥२॥" इति सर्वज्ञाभावात् 'अग्निहोत्रं जरामर्य वा कुर्यात्' इति श्रुत्या यात्रजीवमग्निहोत्र क्रियाविधानतो मोक्षसाधकक्रियानुष्ठानकालाऽप्रदर्शनाच सर्वज्ञाऽनम्युपगन्तृणां यज्वनां मते सर्वदुःखविमुक्तिलक्षणस्य निर्वाणस्याभाव एवेत्याशयेनाह-' नथि निहाण' नास्ति निर्वाणमिति ॥ ५॥ अस्ति मुक्तिः परं तदुपायो नास्ति, सर्वभावानां नियतत्वेनाकस्मादेव मावादिति नियतिवादिमतेन यद्वा स्वभावादेव मुच्यते न मुक्ती स्वभावादन्यः कोऽपि हेतु. रिति मोक्षोपायो नास्तीति स्वभाववादिमतेनाह-" नस्थि य मोक्खोवाओ" नास्ति च मोक्षोपाय इति ।। ६॥ एतानि षट् किमित्याशङ्कायामाह-"छम्मिच्छत्तस्स ठाणाई." षट् मिथ्यात्वस्य स्थानानि, षड्भिस्थानस्तत्वार्थाऽश्रद्धानलक्षणं मिथ्यात्वं भवति । चार्वाक बौद्धसालयवेदान्तिमीमांसकादीनां स्वस्वदर्शनप्रक्रियावादिनां अनाकलिततत्वाऽप्रज्ञापनीय. ताप्रयोजकस्वस्वाभ्युपगतार्थश्रद्धानलक्षणमाभिग्रहिकमिथ्यात्वं भवतीति यावत् । तत्तन्मतखण्डनश्चैवम्-चार्वाकमतेन “यथा जलबुद्बुदो जलातिरेकेण नापः कश्चिद् विद्यते, तथा भूतव्यतिरेकेण नापरः कश्चिदात्मा" इत्यादिप्रकारेणात्मा नास्तीत्यर्थ " नत्थि" इति प्रथमस्थानमुक्तम् , तन्महामोहविजृम्भितम् , यतश्शरीरं विद्यमानकर्तृकं आदिमत्प्रतिनियताकारत्वात् यद् यदादिमत्प्रतिनियताकारं तत्तद्विद्यमानकतेक दृष्ट, यथा घटः, यच्चाविद्यमानकर्टकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽऽकाशम् , आदिमत्प्रतिनियताकारं च शरीरं दृश्यते तस्माद्विद्यमानकर्टकमिति यस्तकर्ता स एवात्मा, न चारादिवनस्पती वल्मीकादौ च व्यभिचारः, तत्रापि गतिजातिशरीराङ्गोपाङ्गादिनानाविधविचित्रकर्मोदयपरिणामिन आत्मन एव शरीरकत्वेनाभ्युपगमात्, ननु तथाप्यस्यानादित्वं कथमिति चेत्, उच्यते-उपयोगलक्षण आत्मा गतिजातिशरीराङ्गोपाङ्गाद्यनु भवनोपयोगात्मतया तान् पुद्गलान् परिणमयतीत्यात्मनः परिणामकत्वं, तेषां परिणाम्यत्वम्, पुद्गलाथात्मानं मिथ्यादर्शनाऽविरतिप्रमादकपाययोगसुखदुःखोदयक्षयोपशमादि. भावेन परिणमयन्ति, तद्भावेनारमा परिणम्यते, स च मिथ्यादर्शनोदयादिभावो भवभ्रमणहेतुः, तद्वशस्य संसरणात्, एतस्य कर्मकर्मिद्वयस्यान्योन्यपरिणामकत्वादनादित्वम्, अत एव कर्मजीवसम्बन्धस्य बीजाहरन्यायेनानादित्वेनोक्तसम्बन्धजस्य संसारस्याप्यनादित्वं "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556