________________
सम्मति० का ३, गा० ५४
न केनापि पुंसा रागादीनामत्यन्तक्षयः कर्तुं शक्यत इति सर्वज्ञो न सम्भवति, किश्च ये सातिशया दृष्टास्तेऽपि स्वस्त्रविषय एव न विषयान्तर इति देशकालस्वभावविप्रकृष्टार्थविषयकमिन्द्रियजज्ञानं न सम्भवति, तदुक्तं मट्टैः सर्वज्ञनिराकरणप्रस्तावे--
" यत्राप्यतिशयो दृष्टः, स स्वार्थाऽनतिलानात् । दूरसूक्ष्मादिदृष्टौ स्या-न्न रूपे श्रोत्रवृत्तिता ॥१॥ येऽपि सातिशया दृष्टाः, प्रज्ञामेधादिभिर्नराः ।
स्तोकस्तोकान्तरत्वेन, न त्वतीन्द्रियदर्शनात् ॥२॥" इति सर्वज्ञाभावात् 'अग्निहोत्रं जरामर्य वा कुर्यात्' इति श्रुत्या यात्रजीवमग्निहोत्र क्रियाविधानतो मोक्षसाधकक्रियानुष्ठानकालाऽप्रदर्शनाच सर्वज्ञाऽनम्युपगन्तृणां यज्वनां मते सर्वदुःखविमुक्तिलक्षणस्य निर्वाणस्याभाव एवेत्याशयेनाह-' नथि निहाण' नास्ति निर्वाणमिति ॥ ५॥ अस्ति मुक्तिः परं तदुपायो नास्ति, सर्वभावानां नियतत्वेनाकस्मादेव मावादिति नियतिवादिमतेन यद्वा स्वभावादेव मुच्यते न मुक्ती स्वभावादन्यः कोऽपि हेतु. रिति मोक्षोपायो नास्तीति स्वभाववादिमतेनाह-" नस्थि य मोक्खोवाओ" नास्ति च मोक्षोपाय इति ।। ६॥ एतानि षट् किमित्याशङ्कायामाह-"छम्मिच्छत्तस्स ठाणाई." षट् मिथ्यात्वस्य स्थानानि, षड्भिस्थानस्तत्वार्थाऽश्रद्धानलक्षणं मिथ्यात्वं भवति । चार्वाक बौद्धसालयवेदान्तिमीमांसकादीनां स्वस्वदर्शनप्रक्रियावादिनां अनाकलिततत्वाऽप्रज्ञापनीय. ताप्रयोजकस्वस्वाभ्युपगतार्थश्रद्धानलक्षणमाभिग्रहिकमिथ्यात्वं भवतीति यावत् । तत्तन्मतखण्डनश्चैवम्-चार्वाकमतेन “यथा जलबुद्बुदो जलातिरेकेण नापः कश्चिद् विद्यते, तथा भूतव्यतिरेकेण नापरः कश्चिदात्मा" इत्यादिप्रकारेणात्मा नास्तीत्यर्थ " नत्थि" इति प्रथमस्थानमुक्तम् , तन्महामोहविजृम्भितम् , यतश्शरीरं विद्यमानकर्तृकं आदिमत्प्रतिनियताकारत्वात् यद् यदादिमत्प्रतिनियताकारं तत्तद्विद्यमानकतेक दृष्ट, यथा घटः, यच्चाविद्यमानकर्टकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽऽकाशम् , आदिमत्प्रतिनियताकारं च शरीरं दृश्यते तस्माद्विद्यमानकर्टकमिति यस्तकर्ता स एवात्मा, न चारादिवनस्पती वल्मीकादौ च व्यभिचारः, तत्रापि गतिजातिशरीराङ्गोपाङ्गादिनानाविधविचित्रकर्मोदयपरिणामिन आत्मन एव शरीरकत्वेनाभ्युपगमात्, ननु तथाप्यस्यानादित्वं कथमिति चेत्, उच्यते-उपयोगलक्षण आत्मा गतिजातिशरीराङ्गोपाङ्गाद्यनु भवनोपयोगात्मतया तान् पुद्गलान् परिणमयतीत्यात्मनः परिणामकत्वं, तेषां परिणाम्यत्वम्, पुद्गलाथात्मानं मिथ्यादर्शनाऽविरतिप्रमादकपाययोगसुखदुःखोदयक्षयोपशमादि. भावेन परिणमयन्ति, तद्भावेनारमा परिणम्यते, स च मिथ्यादर्शनोदयादिभावो भवभ्रमणहेतुः, तद्वशस्य संसरणात्, एतस्य कर्मकर्मिद्वयस्यान्योन्यपरिणामकत्वादनादित्वम्, अत एव कर्मजीवसम्बन्धस्य बीजाहरन्यायेनानादित्वेनोक्तसम्बन्धजस्य संसारस्याप्यनादित्वं
"Aho Shrutgyanam"